________________
प्रथमं विनयाध्ययनम्
जिनोऽपि गुरुरन्येऽपि गुरवो मुनयः समे ।
दानेन बहुमानेन तद्भक्तिनिर्जराकृते ॥७॥ उक्तञ्च
"प्रौढप्रीतिसरङ्गसङ्गि हृदयं वाणी गुणग्राहिणी, कायः कैतवमुक्तवन्दनकवान् दुश्चेष्टितालोचनम् । प्रायश्चित्तपवित्रपालनविधिर्वस्त्रान्न-पानाश्रयप्रावारप्रमुखप्रदानमिति भोः ! भक्तिर्गुरौ गीयते" ॥१॥ धर्मद्रोविनयो मूलं बहुमानादसौ भवेत् ।
स च वन्दनकेन स्यात् प्रयोज्यं तद् गुरोरतः" ॥८॥ उक्तञ्च श्रुते
"विणओवयार माणस्स भंजणा पूयणा गुरुजणस्स । तित्थयराण य आणा सुयधम्माराहणा किरिया ॥१॥ खवई नीयागोयं उच्चायं गोयं च बंधए कम्मं । सोहरगं निव्वत्तइ आणासारं जणपियत्तं" ॥२॥ वन्दनस्य फलं श्रुत्वा निर्जरामाह केशवः । ममादिशत साधूनां सर्वेषां वन्दनं ददे ।।९।। अष्टादश सहस्राणां तदादेशेन भक्तितः । साधूनां वन्दनं दत्त्वा सत्ता वीरेण माधवः ॥१०॥ विज्ञप्ति प्राञ्जलिश्चक्रे विग्रहा बहुशो मया । विभो ! कृता नैव परं श्रमस्तेष्वीदृशोऽजनि ॥११॥ यादृशः शान्त-दान्तानां मुनीनां वन्दनक्षणे । जिनोऽथोवाच वैकुण्ठार्जितं यत् तन्निशम्यताम् ॥१२॥ "चारित्रभूपप्रत्यक्षं भटा दुर्मोहभूपतेः । आद्याः कषायाश्चत्वारस्तथाऽन्यद् दर्शनत्रिकम् ।।१३।।
१. विनयोपचारो मानस्य भञ्जनं पूजनं गुरुजनस्य । तीर्थकराणां चाज्ञा श्रुतधर्माराधना क्रिया ॥१॥ क्षपयति नीचगोत्रमुच्चगोत्रं न बध्नाति कर्म । सौभाग्यं निर्वर्तयत्याज्ञासारं जिनप्रियत्वम् ॥२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org