SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ उत्तरज्झयणाणि-१ ततः किमित्याह पुज्जा जस्स पसीयंति संबुद्धा पुव्वसंथुया । पसन्ना लाभइस्संति विउलं अट्ठियं सुयं ॥४६॥ व्याख्या-पूज्या आचार्यादयो यस्य शिष्यस्य प्रसीदन्ति तुष्यन्ति सम्बुद्धाः सम्यगवगततत्त्वाः पूर्वं श्रुतवाचनाऽऽदिकालादारत एव तत्कालविनयस्य कृतप्रतिक्रियारूपत्वेन तथाविधप्रसादजनकत्वात् संस्तुता विनयविषयत्वेन परिचिताः । यद्वा पूर्व संस्तुताः सम्यक् स्तुताः सद्भूतगुणोत्कीर्तनादिभिः प्रसन्नाः सप्रसादा लम्भयिष्यन्ति प्रापयिष्यन्ति । विपुलम् अर्थो मोक्षः प्रयोजनमस्येत्यार्थिकं श्रुतमङ्गानङ्गादिभेदम् । अनेन विनयस्य पूर्वप्रसादोऽनन्तरफलं तस्य च श्रुतमुक्तम्, परम्परफलं तु मुक्तिरिति । यदाह वाचक: "विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चावनिरोधः ॥१॥ संवरफलं तपोबलमथ तपसो निर्जराफलं दृष्टम् । तस्मात् क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥२॥ योगनिरोधाद् भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात् कल्याणानां सर्वेषां भाजनं विनयः" ॥३॥ विनयफले श्रीकृष्णकथा अस्त्युपोदधि विख्याता गुर्वी द्वारावती पुरी । वार्द्धः स्रष्टोत्कण्ठयेवादाय रत्नानि निर्मिता ॥१॥ तत्रार्धचक्री भूपालः श्रीकृष्णः परमार्हतः । यत्तेजोदीपकश्चित्रं तमश्चक्रेऽरिचेतसि ॥२॥ अन्यदा रैवतोद्याने श्रीनेमिः समवासरत् । स्फीतां विस्तारयल्लक्ष्मी गत्वाऽवन्दत केशवः ॥३॥ "अदत्त देशनां योग्यां जगन्नाथोऽपि सर्ववित् । मोक्षस्यानन्तरो हेतुः शुद्धो भावस्तवो मतः ॥४॥ तप्तायोगोलकल्पस्य गृहिणः स कुतो भवेत् ? । तथापि देशतः कार्योऽहंद्गुरूपासनादिकः ॥५॥ इहैव जिनपूजा स्यात् सर्वदुःखविमुक्तये । परत्र च नरामर्त्यमहोदयसुखप्रदा ॥६॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy