________________
प्रथमं विनयाध्ययनम्
४१ ___ व्याख्या-धर्मेण क्षान्त्यादिनार्जितमुपार्जितं 'चः पूरणे' विविधमवहरणमनेकार्थत्वादाचरणं व्यवहारस्तं प्रत्युपेक्षणादि यतिकर्तव्यतारूपं बुद्धैरवगततत्त्वैराचरितं सदा तमाचरन् । तं कीदृशम् ? व्यवहारं विशेषेण पापकर्मापहारकं गर्हामविनीतोऽयमित्येवंविधां निन्दा नाभिगच्छति प्राप्नोति 'यतिरिति गम्यम्' ॥४२॥ किञ्च
मणोगयं वक्तगयं जाणित्ता आयरियस्स उ ।
तं परिगिज्झ वायाए कम्मुणा उववायए ॥४३॥ व्याख्या-मनोगतं वाक्यगतं 'कृत्यमिति शेषः' ज्ञात्वा विनीततयाऽऽचार्यस्य तुशब्दात् कायगतमपीङ्गितादिना तन्मनोगतादि परिगृह्याङ्गीकृत्य वाचेदमित्थं करोमीतिरूपया कर्मणा तत्करणात्मकेन तदुपपादयेत् कुर्यात् ॥४३॥ स च यादक् स्यात्, तदाह
वित्ते अचोइए निच्चं खिप्पं हवइ सुचोइए ।
जहोवइटुं सुकयं किच्चाई कुव्वई सया ॥४४॥ व्याख्या—वित्तो विनयवत्तया सर्वगुणाश्रयत्वेन प्रसिद्धोऽचोदितो गुरुभिरप्रेरितः 'कृत्येषु प्रवर्तते इति शेषः' यथा विनीतधुर्यः प्रतोदोत्क्षेपाप्रेरित इति । नित्यं न तु कदाचित् । स्वयं प्रवर्तमानोऽपि प्रेरितोऽनुशयवानपि स्यादिति कस्याप्याशङ्का निराकर्तुमाहक्षिप्रमिति शीघ्रं भवति सति सुचोदके शोभने प्रेरयति 'गुराविति गम्यम्' । प्रेरके तु सति निर्विलम्बं प्रवर्तते, न त्वनुशयवान् भवतीत्यर्थः । यथोपदिष्टं गुर्वादिष्टानतिक्रमेण सुकृतं सुष्ठ कृतं यथा स्यादेवं कृत्यानि करोति सदा ॥४४॥ सम्प्रत्युपसंहर्तुमाह
नच्चा नमइ मेहावी लोए कित्ती य जायए ।
हवइ किच्चाण सरणं भूयाणं जगई जहा ॥४५॥ व्याख्या-ज्ञात्वाऽनन्तरोक्तमध्ययनार्थं नमति तत्कृत्यं प्रति प्रह्वीभवति मेधावी एतदर्थावधारणशीलः । तद्गुणमाह-लोके कीर्तिः सुलब्धमस्य जन्मेत्यादि श्लाघा, चशब्दाद् यशो यतः-'एकदिग्व्यापिनी कीर्तिः सर्वदिग्व्यापकं यशः' इति विशेषो जायते प्रादुर्भवति । एवंविध एव भवति कृत्यानामुचितानां शरणमाश्रयो भूतानां प्राणिनां जगती यथेति ॥४५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org