SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ प्रथमं विनयाध्ययनम् निर्बन्धेन ग्राह्यमाणा आस्तिकैस्ते वदन्ति च । किं कुर्मो यदुपक्रान्ता गुर्वी संलेखना हितैः ॥ १२॥ अशनं प्रान्तमान्तं च भुञ्जन्तो गुरवोऽधुना । तप्यन्ते च तपस्तीव्रमस्माभिर्वारिता अपि ॥१३॥ एतदाकर्ण्य तद्वाक्यं गुरुषु प्रेममेदुराः । श्रमणोपासकाः सर्वेऽप्यधृतिं परमां व्यधुः ॥ १४॥ गुरूणां पुरतः शिष्यपांशनास्तेऽप्यथोचिरे । ही ! किमत्र करिष्यामः स्थित्वा निर्भावके पुरे ? ||१५|| यत्र युष्मादृशां प्राप्तनिखिलागमसम्पदाम् । चिरावस्थानतः खिन्नाः श्राद्धा भक्तावुदासते ||१६|| अहो ! प्रतिगृहं भ्रान्तं प्रत्यास्तिकमथार्थितम् । परं नाप्तं भवद्येोग्यं सर्वेषां धीः समा ह्यभूत् ॥१७॥ सरला: सूरयो दध्युरविहारे हि लाघवम् । यदुक्तमागमे नूनं तद् भवेत् कथमन्यथा ? ॥१८॥ संलेखनास्थमाचार्यं ज्ञात्वाऽन्तः शोकसङ्कुलाः । उपसूरि समागत्य श्राद्धाः साञ्जसमूचिरे ॥ १९ ॥ गुरवोऽर्हद्दिनेशेषु प्राप्तेषु परमं पदम् । प्रदीपैरिव विश्वेयं श्रीमद्भिर्निस्तमायते ॥२०॥ तत् क्षेत्रं पावनं यत्र श्रीभवन्तः सदाऽऽसते । किं कल्पपादपा भारकराः सुरमहीभृतः ? ॥२१॥ दृब्धा संलेखना केयमकाण्डे श्रुतसागराः ? । जीवन्तो हि भवन्तः स्युः स्व- परार्थैकसाधकाः ॥२२॥ नेति चिन्त्यं यदेकत्रैषां निर्वेदाय नः स्थितिः । न निर्वेदाय यूयं गोः शृङ्गा इव शिरः स्थिताः ||२३|| श्रुत्वेति गुरुणाऽचिन्ति विनयास्तिकवाक्ययोः 1 निर्दम्भं तद्वाक्यं न शठा ह्यास्तिका इमे ॥ २४ ॥ चेष्टाऽनेकशो ज्ञातं शिष्यशाठ्यं पुराऽपि हि । तदनेन पराप्रीतिकरणे वपुषाऽप्यलम् ॥२५॥ For Private & Personal Use Only Jain Education International 2010_02 ३९ www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy