SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ३८ अनैयत्यं विहारेण विहर्तुं सोद्यमा अपि । जङ्घाबलपरीहाणेः संनिवेशे स्थिताः क्वचित् ॥२॥ सनाथमार्हततीर्थमेतैः श्रुतयोहूदैः । विचिन्त्येत्यास्तिकास्तत्र तान् परं पर्युपासते ॥३॥ वयोऽवस्थोचितैः स्निग्धमधुराद्यशनादिभिः । सदा भैषज्य - वस्त्राद्यैस्ते तानुपचरन्ति च ॥४॥ उक्तञ्च 44 'जे गिलाणं पडियरइ से धन्ने उयाहु जे तुमं दंसणेणं पडिवज्जइ से धन्ने ? । गोयमा ! जे गिलाणं पडियरड़ से धन्ने ? से किमाहु भंते !? । गोयमा ! जे गिलाणं पडियर से मं दंसणेणं पडिवज्जइ । जे मं दंसणेणं पडिवज्जइ से गिलाणं पडियर । आणाराहणं खु दंसणं जिणाणं" ॥ तेषां मुखाच्छ्रुतश्रुत्या तेषां वन्दन-भक्तिभिः । आत्मानं कृतकर्तव्यं मेनिरे ते दृढार्हताः ||५|| शिष्यास्तु गुरुकर्म्माणः पाप्मानो मन्दबुद्धयः । गुणानुरागनिर्मुक्ताः पठिता अपि बालिशाः ||६|| रत्नप्रायं गुरोर्योगं प्राप्यापि हितहेतुकम् । अनर्थयन्तस्तद्भक्त्युद्विग्नचित्ता दुराशयाः ॥७॥ दुष्प्रतीकारतां सूत्रप्रोक्तामवगणय्य च । इति चिन्तयितुं लग्ना भग्ना गलिवृषा इव ॥८॥ असौ कियच्चिरं पाल्योऽस्माभिः सूरिरजङ्गमः । अक्षमैरन्यतो गन्तुं चारक्षिप्तैरिवान्वहम् ॥९॥ उत्तरज्झयणाणि - १ ततः केनाप्युपायेनानशनं प्रतिपद्यते । चेद् गुरुस्तद् वयं मुक्ताऽऽत्मानस्स्मः क्षेमभाजनम् ॥१०॥ इति ध्यात्वा ततो नोपाददते भेषजादिकम् । दीयमानमपि श्राद्धैस्ते प्रद्विष्टा गुरूचितम् ॥११॥ १. यो ग्लानं प्रतिचरति स धन्यः, उताहो ! यस्त्वां दर्शनेन प्रतिपद्यते स धन्यः ? । गौतम ! यो ग्लानं प्रतिचरति स धन्यः । तत् किमाह भगवन् ? । गौतम ! यो ग्लानं प्रतिचरति, स मां दर्शनेन प्रतिपद्यते । यो मां दर्शनेन प्रतिपद्यते स ग्लानं प्रतिचरति । आज्ञाराधनं खलु दर्शनं जिनानाम् ॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy