________________
३७
प्रथमं विनयाध्ययनम्
व्याख्या-रमते धृतिमान् स्यात् पण्डितान् विनीतान् शासत् स्खलिते शिक्षयन् गुरुरिति शेषः । हयमिवाश्वमिव कीदृशं ? भद्रं कल्याणावहं वाहकोऽश्वन्दमः । बालमज्ञं 'सम्मइ त्ति' श्राम्यति खिद्यते शासद् गुरुः, स हि प्रवृत्ति-निवृत्त्योः पुनस्तदनुशासने न खिद्यत एव, गल्यश्वमिव वाहक इति ॥३७॥ गुर्वनुशासने बालाभिसन्धिमाह
खड्डया मे चवेडा मे अक्कोसा य वहा य मे ।
कल्लाणमणुसासंतो पावदिट्ठि त्ति मन्नइ ॥३८॥ व्याख्या-खड्डकाष्टक्करा मे मम, चपेटा मे, आक्रोशा निष्ठुरभाषणानि मे, वधाश्च दण्डादिघाता मे, अनुशासनं नापरं किञ्चिद् हितमस्तीत्यभिप्रायवान् । कल्याणमिहपरलोकहितमनुशास्यमानो गुरुणा पापदृष्टिरर्थात् कुशिष्य इति प्रागुक्तं मन्यते ॥३८|| विनीताविनीताभिसन्धिमाह
पुत्तो मे भाय नाइ त्ति साहू कल्लाण मन्नइ ।
पावदिट्ठी उ अप्पाणं सासं दासं व मन्नइ ॥३९॥ व्याख्या-पुत्रो मे, भ्राता मे, ज्ञातिरयं मे इति धिया यमाचार्यो मामनुशास्तीति साधुविनीतः कल्याणं हितं गुरुमनुशासनं वा मन्यते । पापदृष्टिस्तु पुनरात्मानं 'सासं ति' प्राकृतत्वात् शास्यमानं दासमिव मन्यते ॥३९।। विनयसर्वस्वमाह
न कोवए आयरियं अप्पाणं पि न कोवए ।
बुद्धोवघाई न सिया न सिया तोत्तगवेसए ॥४०॥ व्याख्या-न कोपयेदाचार्यमुपलक्षणादन्यमपि विनयाहम् । तथा आत्मानमपि गुरुभिरतिपरुषभाषणादिना शास्यमानं न कोपयेत् । कथञ्चित् कोपे सति बुद्धोपघाती गुर्वाधुपघाती न स्याद् न स्यात् तोत्रगवेषकस्तोत्रं द्रव्यतः प्राजनकः, भावतस्तु जात्यादिदोषोद्भावनेन व्यथोत्पादकं वचस्तदन्वेषकोऽर्थाद् गुरूणाम् ॥ बुद्धोपघातित्वे कुशिष्यकथा । तथाहि
उपशान्ता जनाम्भोजतिग्मभासो बहुश्रुताः । आचार्याः सत्क्रियाः केचिदनिगूहितशक्तयः ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org