________________
३६
उत्तरज्झयणाणि-१ जन्तुवर्जितम् । परकृतं गृहिणा स्वार्थं कृतं पिण्डं प्रतिगृह्णीयात् संयत इति ॥३४॥ पुनासैषणाविभागमाह
अप्पपाणेप्पबीयंमि पडिच्छन्नंमि संवुडे ।
समयं संजए भुंजे जयं अपरिसाडियं ॥३५॥ व्याख्या-अल्पप्राणे अल्पाः प्राणा अवस्थिता गन्तुका यत्र । अल्पबीजे शाल्यादिबीजविकले, उपलक्षणात् सर्वैकेन्द्रियरहिते । प्रतिच्छन्ने सम्पातिमसत्त्वरक्षार्थमुपरिप्रावरणान्विते । संवृते पार्श्वत: कटकुट्यादिसङ्कटद्वारे 'उपाश्रयादाविति गम्यम्' अन्यथा दीनादियाचने दानादानयोः पुण्यबन्ध-द्वेषादिदोषसम्भवात् । समकं साधुभिः सह, न त्वेकाकी रसलाम्पट्यात् । तथोक्तम्
"साहवो तो चियत्तेणं निमंतेज्ज अहक्कमं ।
जइ तत्थ केइ इच्छिज्जा तेहिं सद्धिं तु भुंजए" ॥१॥ संयतो भुञ्जीत यतमानः सुरसुरादिदोषाद्यकुर्वन् । अपरिसाटितं परिसाटेन भूमिपातेन रहितम् ।।३५।। वाग्यतनामाह
सुकडे ति सुपक्के त्ति सुच्छिन्ने सुहडे मडे ।
सुनिट्ठिए सुलट्ठि त्ति सावज्जं वज्जए मुणी ॥३६॥ व्याख्या-सुकृतमन्नादि, सुपक्वं घृतपुर्णादि, सुच्छिन्नं पत्र-शाकादि, सुहृतं शाकादेस्तिक्तत्वादि, सुमृतं घृतादि सक्तु-सूपादौ । सुनिष्ठितं रसप्रकर्षतया निष्ठां गतं, सुलष्टं शोभनं शाल्याद्यखण्डोज्ज्वलादिप्रकारैरेवमन्यदपि सावधं वर्जयेद् मुनिः । निरवद्यं तु सुकृतमनेन ध्यानाध्ययनादि, सुपक्वमस्य वचोविज्ञानादि, सुच्छिन्नं स्नेहनिगडादि, सुहृतोऽयमुत्प्रव्राजकनिजकेभ्यः शिष्यः, सुमृतमस्य पण्डितमरणेन, सुनिष्ठितोऽयं साध्वाचारे, सुलष्टमतिशयप्रधानमस्य तपोऽनुष्ठानमित्यादि कारणतो वा प्रयत्नपक्वाद्यप्यागमानुसारेण वदेदपीति ॥३६।। विनीताविनीतयोरनुशासने गुरोर्यत् स्यात् तदाह
रमए पंडिए सासं हयं भदं व वाहए ।
बालं सम्मइ सासंतो गलियस्सं व वाहए ॥३७॥ १. साधून् ततः प्रतीत्या निमन्त्रयेद् यथाक्रमम् ।।
यदि तत्र केचिदिच्छेयुस्तैः सार्धं तु भुञ्जीत ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org