________________
प्रथमं विनयाध्ययनम् दोषसम्भवात् । किञ्च भिक्षुर्दत्तं दानं तस्मिन् गृहिणा दीयमाने एषणां तद्गतदोषगवेषणां चरेदासेवेत । प्रतिरूपेण पूर्वमुनिसदृशेन पतद्ग्रहादिधारणात्मकेन, न त्वन्यधार्मिककल्पितधातुतुरक्तवस्त्र-त्रिदण्ड-च्छत्राद्यात्मकेनैषयित्वा गवेषयित्वा । अनेन गवेषणोक्ता । अथ ग्रासैषणामाह-मितं परिमितम्, अतिभोजनात् स्वाध्यायविघातादिदोषसम्भवात् । कालेन नमोक्कारेण पारितेत्यादिश्रुतोक्तप्रस्तावेनाद्रुताविलम्बितरूपेण वा भक्षयेद् भुञ्जीतेति
॥३२॥
पूर्वप्रविष्टान्यभिक्षुसम्भवे कृत्यमाह
नाइदूरमणासन्ने नन्नेसिं चक्खुफासओ ।
एगो चिट्ठिज्ज भत्तट्ठा लंघित्ता तं नइक्कमे ॥३३॥ व्याख्या-सुब्ब्यत्ययान्नातिदूरे तत्र तन्निर्गमानवगमादेषणाशुद्ध्यभावाच्च । नासन्ने नातिनिकटे तत्र पुराऽऽगतभिक्षुकाप्रीतिसम्भवात् । नान्येषां भिक्षुकापेक्षया गृहिणां चक्षःस्पर्शतः 'सप्तम्यर्थे तस्' ततस्तदृष्टिगोचरे तिष्ठेत् । किन्त्वेकान्ते यथैषोऽन्यभिक्षुनिष्क्रमणं वाञ्छतीति गृहिणो न जानन्ति । एकस्तदुपरि द्वेषरहितो भक्तार्थं भोजनार्थं 'लंघित्त त्ति' उल्लङ्घ्य तं भिक्षु नातिक्रामेद् न प्रविशेत् तदप्रीत्यपवादादिसम्भवात् । इह प्राग् भोजनविधिमुक्त्वा पुनर्भिक्षाभिधानं ग्लानाद्यर्थं स्वयं वा क्षुधामसहिष्णोः पुनभिक्षाभ्रमणानुज्ञापनार्थम् । उक्तञ्च
"जइ तेण न संथरे ।
तओ कारणमुप्पन्ने भत्तपाणं गवेसए" त्ति ॥३३॥ तद्गतमेव विधिमाह
नाडउच्चे व नीए वा नासन्ने नाइदरओ ।
फासुयं परकडं पिंडं पडिगाहिज्ज संजए ॥३४॥ व्याख्या नात्युच्चे मालादौ, नीचे वा भूमिगृहादौ तत्रोत्क्षेप-निक्षेपनिरीक्षणासम्भवात् । यद्वा नात्युच्चो द्रव्यतो नोच्चस्थानस्थो नोर्वीकृतकन्धरो वा, भावतश्चाहोऽहं धिमानिति गर्वाध्मातः । नीचो द्रव्यतो नीचस्थानस्थोऽतिनीचैः कृतकन्धरो वा । भावतो नीचो न मयाऽद्य किञ्चिदवाप्तमिति दैन्यवान् । नासन्ने नातिदूरे स्थित इति गम्यम् । यथायोगं जुगुप्सा-शद्वेषणाशुद्ध्यसम्भवादयो ह्येवं दोषास्तथा प्रासुकं सहज-संसक्तिज
१. यदि तेन न संस्तरेत् ।
ततः कारण उत्पन्ने भक्तपानं गवेषयेत् इति ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org