________________
उत्तरज्झयणाणि-१ तदनुशासनं भवति मूढानामज्ञानाम् । अनुशासनं स्वरूपतो विशेषयति 'खंति त्ति' क्षान्तेः शुद्धिर्नैर्मल्यं तत्करमुपलक्षणाद् मार्दवार्जवशुद्धिकरमपि । अमूढानां हि विशेषतो गुर्वनुशासनस्य क्षान्त्यादिहेतुत्वात् पदं ज्ञानादिगुणानां स्थानम् ॥२९।। पुनर्विनयमेवाह
आसणे उवचिट्ठिज्जा अणुच्चे अकुए थिरे ।
अप्पुट्ठाई निरुट्ठाई निसीएज्जऽप्पकुक्कुए ॥३०॥ व्याख्या-आसने पीठादौ वर्षासु ऋतुबद्धे पादपुञ्छने उपतिष्ठेदुपविशेत् । अनुच्चे द्रव्यतो नीचे, भावतस्त्वल्पमूल्ये गुर्वासनादिति गम्यम् । अकुचेऽस्पन्दमाने किञ्चिच्चलतस्तस्य शृङ्गाराङ्गत्वात् । स्थिरे निश्चले, अन्यथा सत्त्वविराधनासम्भवात् । ईदृशेऽप्यासने अल्पोत्थायी प्रयोजनेऽपि । न पुनः पुनरुत्थानशीलो निरुत्थायी कार्यं विना नोत्थानशील एवंविधश्च किमित्याह-निषीदेदासीत । 'अप्पकुक्कुए त्ति' अल्पस्पन्दनः करादिभिरल्पमेव चलन्, यद्वाऽल्पमसत् कौत्कुचं भ्रू-कर-चरणाद्यसच्चेष्टात्मकमस्येत्यल्पकौत्कुच इति ॥३०॥ एषणासमितिविषयं विनयमाह
कालेण निक्खमे भिक्खू कालेण य पडिक्कमे ।
अकालं च विवज्जित्ता काले कालं समायरे ॥३१॥ व्याख्या--'सप्तम्यर्थे तृतीया' काले भिक्षार्थं निष्क्रामेद् गच्छेद् भिक्षुः, अकालनिर्गमे आत्मक्लामनादिदोषसम्भवात् । काले च प्रतिक्रामेत भिक्षाटनाद् निवर्तेत, न तु रसगृद्ध्याऽत्यर्थमटेत् । अत आह–अकालं चासमयं विवर्ण्य काले प्रस्तावे कालमित्युपचारात् तत्कालोचितप्रत्युपेक्षणाद्यनुष्ठानं समाचरेत् कुर्यात् । उक्तञ्च
"कालम्मि कीरमाणं किसिकम्मं बहुफलं जहा होइ।।
इय सव्व च्चिय किरिया नियनियकालंमि फलहेऊ" ॥१॥ ॥३१॥ एषणाविधिमाह
परिवाडीए न चिट्ठिज्जा भिक्खू दत्तेसणं चरे ।
पडिरूवेण एसित्ता मियं कालेण भक्खए ॥३२॥ व्याख्या–परिपाट्यां भोक्तुमुपविष्टजनपङ्क्त्यां न तिष्ठेद् भिक्षार्थम्, अप्रीत्यादि१. काले क्रियमाणं कृषिकर्म बहुफलं यथा भवति ।
इति सर्वैव क्रिया निजनिजकाले फलहेतुः ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org