________________
३३
प्रथमं विनयाध्ययनम् स्वगतदोषमुक्तोपाधिकृतदोषत्यागमाह
समरेसु अगारेसुं संधीसु य महापहे ।
एगो एगित्थिए सद्धि नेव चिट्ठे न संलवे ॥२६॥ व्याख्या-समरेषु खरकुटीषु नीचास्पदोपलक्षणं तथा चाह चूर्णिकृत्-"समरं नाम जत्थ लोहयारा हेट्ठा कम्मं करिंति" त्ति अगारेषु गृहेषु सन्धिषु च गृहद्वयान्तरालेषु महापथे राजमार्गादावेकोऽसहाय एकया स्त्रिया सार्धं सह नैव तिष्ठेद् न संलपेद् आलापं कुर्यात् । एवंविधास्पदेषु ससहायस्यापि ससहाययापि स्त्रिया सहावस्थानादेनिषिद्धत्वात् । अन्यथा प्रवचनमालिन्यादिदोषसम्भवात् ।।२६।। स्खलिते गुर्वनुशिष्टौ कृत्यमाह
जं मे बुद्धाणुसासंति सीएण फरुसेण वा ।
मम लाभो त्ति पेहाए पयओ तं पडिस्सुणे ॥२७॥ व्याख्या-यन्मे बुद्धा आचार्यादयः, अनुशासति शिक्षयन्ति शीतेन सोपचारेणानन्दकेनेत्यर्थः । परुषेण कर्कशेन वचसेति गम्यम् । मम लाभोऽप्राप्तार्थप्राप्तिरूपोऽयं जिनोपदेशरूपो मोक्षो वा । यन्मामनाचारकारिणममी शासतीति 'पेहाए त्ति' प्रेक्षया बुद्ध्या ‘पयओ त्ति' प्रयत: प्रयत्नवांस्तदनुशासनं विधेयतया प्रतिशृणुयादङ्गीकुर्यात् ॥२७॥ किमेवमुपदिश्यत इत्याह
अणुसासणमोवायं दुक्कडस्स य चोयणं ।
हियं तं मन्नए पन्नो वेसं होइ असाहुणो ॥२८॥ . व्याख्या-अनुशासनं शिक्षणम् । उपाये मृदु-परुष-भाषणादौ भवमौपायं दुष्कृतस्य कुत्सिताचरितस्य नोदनं प्रेरणं भद्र ! हा ! किमिदमाचरितमित्यादिकं गुरुकृतं हितमिहपरलोकोपकारि तदनुशासनादि मन्यते प्राज्ञः । द्वेष्यं भवेदसाधोरपगतभावसाधुत्वस्यानेनासाधोर्गुरुवचोऽप्यनिष्टं स्यादित्युक्तम् ॥२८॥ अमुमेवार्थं व्यक्तीकुर्वन्नाह
हियं विगयभया बुद्धा फरुसं पि अणुसासणं ।
वेसं तं होइ मूढाणं खंतिसोहिकरं पयं ॥२९॥ व्याख्या-हितं पथ्यं विगतभया इहलोकादिसप्तभयरहिता बुद्धा ज्ञाततत्त्वाः परुषमप्यनिष्टमप्यनुशासनमर्थाद् ‘गुरुकृतं मन्यन्त' इति शेषः । द्वेष्यं द्वेषोत्पादि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org