________________
३२
उत्तरज्झयणाणि-१ अथ गुरुकृत्यमाह
एवं विणयजुत्तस्स सुत्तं अत्थं च तदुभयं ।
पुच्छमाणस्स सीसस्स वागरिज्ज जहासुयं ॥२३॥ व्याख्या-एवमुक्तप्रकारेण विनययुक्तस्य सूत्रमङ्गादि, अर्थं च तदभिधेयं तदुभयं सूत्रार्थरूपं पृच्छतो ज्ञातुकामस्य शिष्यस्य व्यागृणीयाद् वदेद् 'गुरुरिति शेषः' यथाश्रुतं गुरुभ्यो न तु स्वधिया ।।२३।। पुनः शिष्यस्य वाग्विनयमाह
मुसं परिहरे भिक्खू न य ओहारिणिं वए ।
भासादोसं परिहरे मायं च वज्जए सया ॥२४॥ व्याख्या-मृषां सद्भूतापलापादिकां परिहरेद् भिक्षुर्न चावधारिणी गमिष्याम एव करिष्याम एवेत्यादिनिश्चयात्मिकां वाचं वदेत् । यतः
"अन्नह परिचिंतिज्जइ कज्जं परिणमइ अन्नहा चेव ।
विहिवसयाण जियाणं मुहुत्तमेत्तं पि बहुविग्घं" ॥२॥ भाषादोषं सावधानुमोदनादिकं परिहरेद् मायां चशब्दात् क्रोधादीन् मृषाहेतून् वर्जयेत् सदा ॥२४॥
न लविज्ज पुट्ठो सावज्जं न निरटुं न मम्मयं ।
अप्पणट्ठा परट्ठा वा उभयस्संतरेण वा ॥२५॥ व्याख्या—न लपेद् वदेत् पृष्टः सावधं सपापं, न निरर्थकं दश दाडिमादि न मर्मकं वचनमिति शेषः संक्लेशहेतुत्वादस्य । आह च
"मम्मं जम्मं कम्मं तिन्नि वि एयाई पयासिज्जा ।
मा मम्माइसु विद्धो मारेइ परं मरिज्जा वा" ॥१॥ आत्मार्थं परार्थं चोभयस्यात्मनः परस्य चार्थमन्तरेण प्रयोजनं विना ॥२५॥
१. अन्यथा परिचिन्त्यते कार्य परिणत्यन्यथा चैव ।
विधिवशगानां जीवानां मुहूर्त्तमात्रमपि बहुविघ्नम् ॥१॥ २. मर्म जन्म कर्म त्रीण्यप्येतानि न प्रकाशयेत् ।
मा मर्मादिषु विद्धो मारयेत् परं म्रियेत वा ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org