________________
३१
प्रथमं विनयाध्ययनम् पुनः प्रतिश्रवणविधिमाह
आयरिएहिं वाहिंतो तुसिणीओ न कयाइ वि ।
पसायपेही नियागट्ठी उवचिढे गुरुं सया ॥२०॥ व्याख्या—आचार्यादिभिर्व्याहृतः शब्दितस्तूष्णीको न कदाचिदपि ग्लानाद्यवस्थायामपि स्यात् । किन्तु
"धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी ।
गुरुवदनमलयनिःसृतो वचनरसश्चन्दनस्पर्शः" ॥ इत्यालोचयन् प्रसादप्रेक्षी, प्रसादोऽयं यदन्यसद्भावेऽपि मामादिशन्ति गुरव इति पर्यालोचनशीलो नियागार्थी मोक्षार्थी सन्नुपतिष्ठेन्मस्तकेन वन्द इति वदन् सविनयमुपसद् गुरुं सदा ॥२०॥
आलवंते लवंते वा न निसीएज्जा कयाइ वि ।
चइऊण आसणं धीरो जओ जत्तं पडिस्सुणे ॥२१॥ व्याख्या—आ ईषल्लपति लपति वा वारं वारं वदति सति गुराविति गम्यम् । न निषीदेन्नोपविष्टस्तिष्ठेत् कदाचिदपि व्याख्यादिव्याकुलतायामपि । किन्तु त्यक्त्वाऽऽसनं धीरो धीमान् यतो यत्नवान् 'जत्तं ति' प्राकृतत्वाद् बिन्दोर्लोपे तस्य च द्वित्वे यदादिशन्ति गुरवस्तद् विधेयतया प्रतिशृणुयात् स्वीकुर्यात् ॥२१॥ पुनस्तमेवाह
आसणगओ न पुच्छिज्जा नेव सिज्जागओ कया ।
आगम्मुक्कुडुओ संतो पुच्छिज्जा पंजलीउडो ॥२२॥ व्याख्या-आसनगतो न पृच्छेत् सूत्रादि, नैव शय्यागतः संस्तारकस्थस्तथाविधावस्थां विना कदापि बहुश्रुतत्वेऽपि संशये सति नावज्ञया प्रष्टव्यं, सदा गुरुविनयस्यानुल्लङ्घयत्वात् यतः
"जहाहिअग्गी जलणं नमसे नाणाहुईमंतपयाभिसित्तं ।
एवायरियं उवचिट्ठइज्जा अणंतनाणोवगओ वि संतो" ॥१॥ किं कुर्यादित्याह-आगम्य गुर्वन्तिकमेत्योत्कुटुको मुक्तासनः, कारणतः पादपुञ्छनगतोऽपि 'संतो त्ति' सन् शान्तो वा पृच्छेत् प्राञ्जलिपुटः संयोजितकर इति ॥२२॥
१. यथाऽऽहिताग्निर्व्वलनं नमस्येन्नानाऽऽहुतिमन्त्रपदाभिषिक्तम् ।
एवमाचार्यमुपतिष्ठेताननन्तज्ञानोपगतोऽपि सन् ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org