________________
३०
उत्तरज्झयणाणि-१ विनयान्तरमाह
पडिणीयं च बुद्धाणं वाया अदुव कम्मुणा ।
आवी वा जइ वा रहस्से नेव कुज्जा कयाइ वि ॥१७॥ व्याख्या-प्रत्यनीकं च प्रतिकूलं चेष्टितमिति गम्यम् । बुद्धानां गुरूणां वाचा वाण्या त्वमपि किञ्चिज्जानीषे इत्याद्यात्मिकया विपरीतप्ररूपणायां प्रेरितस्त्वयैवाहं शिक्षित इत्येवंरूपया वा । अथवा कर्मणा संस्तारकातिक्रमण-चरणस्पर्शादिनाऽऽविर्वा लोकसमक्षं यदि वा रहस्ये विजने नैव कुर्यात् कदाचिदपि परुषोक्त्यादावपि प्रत्यनीकत्वमिति । एवकार: "शत्रोरपि गुणा ग्राह्या दोषा ग्राह्या गुरोरपि" इति कुमतनिरासार्थः ॥१७॥ विनयमेवाह
न पक्खओ न पुरओ नेव किच्चाण पिट्ठओ ।
न जुंजे ऊरुणा ऊरूं सयणे नो पडिस्सुणे ॥१८॥ न पक्षतो दक्षिणादिपक्षमाश्रित्य, पङ्क्तिसमावेशतस्तत्साम्यात् । न पुरतोऽग्रतः वन्दकजनस्य गुरुमुखावीक्षणात् । नैव कृत्यानामाचार्यादीनां पृष्ठतः, मुखादर्शने द्वयोरपि रसवत्ताऽभावादुपविशेदिति शेषः । न युङ्ग्यात् सङ्घट्टयेद्, अतिनिकटत्वेनोरुणाऽऽत्मीयेन गुरोरुरुं, शेषाङ्गस्पर्शोपलक्षणम्, तथाकरणे ह्यविनयसद्भावात् । तथा गुरुणा कार्य प्रत्यादिष्टः शयने शय्यायां शयित आसीनो वा न प्रतिशृणुयादेवं कुर्म इत्येवं नाङ्गीकुर्यात्, किन्तु समीपमागत्य विनयरचिताञ्जलिरिच्छामोऽनुशिष्टिमिति वदेत् ॥१८॥ पुनस्तमेवाह
नेव पल्हत्थियं कुज्जा पक्खपिंडं व संजए ।
पाए पसारए वा वि न चिट्ठे गुरुणंतिए ॥१९॥ व्याख्या-नैव पर्यस्तिकां जानु–जङ्घोपरि वस्त्रवेष्टनरूपां कुर्यात् । पक्षपिण्डं वा बाहुद्वयकायपिण्डात्मकं संयतः साधुर्वैव कुर्यात् । तथा पादौ प्रसारयेद् वाऽपि नैव । अपि शब्दान्नेतस्ततो विक्षिपेदिति । अन्यच्च न तिष्ठेद् गुरूणामन्तिके समीपे, किन्तूचितप्रदेशे । एवोपलक्षणत्वादवष्टम्भाद्यपि वर्जयेद्, अन्यथा ह्यविनयदोषसम्भवात् ॥१९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org