________________
प्रथमं विनयाध्ययनम्
श्रेणिकोऽपि ततोऽटव्यां गत्वा तद्दर्शिताध्वना । तं बद्ध्वाऽऽशु प्रयोगेण निन्ये राजगृहं पुरम् ॥१९॥ दृढमालानितोऽप्युच्चैः पदे निगडितोऽपि हि । त्याजितोऽपि निजां भूमि मदं तत्याज नो गजः ॥२०॥ ततस्ते तापसास्तुष्टाः सोत्प्रासं तं बभाषिरे । हंहो ! हस्तिन् ! क्व शौण्डीर्यमधुना प्रलयं गतम् ? ॥२१॥ अभृज्जथा वयःप्राप्तो यत्र वृद्धस्तमाश्रमम् । दुराचारस्य तस्येदं पुष्पमाविरभूत् तव ॥२२॥ मुनीनामाश्रमे भग्ने यदास्ते पापमजितम् । भोक्ताऽसि तत्फलं प्रेत्य हस्तिन् ! किमनुशोचसि ? ॥२३॥ ततस्तद्वाक्यमाकर्ण्य क्रोधरक्ताक्ष उत्करः । सोऽयं दग्धोपरि स्फोटः कटु यत् सङ्कटे वचः ॥२४॥ संस्मृत्येति दधावेऽसौ मोटितालाननालकः । विभक्तनिगडो वीर्यात् पुरं कु विसंस्थुलम् ॥२५॥ नष्टास्तेऽथ रयाद् गत्वा तमेवाभक्त चाश्रमम् । विचचार वने स्वैरं रेवाकूलङ्कषातटे ॥२६॥ श्रेणिकोऽपि तमादातुं नन्दिषेणादिपुत्रयुक् । गतः सर्वाभिसारेण तस्यानुपदिकं वने ॥२७॥ सल्लक्षणत्वात् स करी देवताधिष्ठितस्ततः । सोपयुज्यावधि ज्ञात्वाऽवश्यग्राह्यं नृपेण तम् ॥२८॥ अवोचत् करिणः कर्णे पुत्रात्मानमिह स्वयम् । दमयस्व यतो राजा निश्चितं दमयिष्यति ॥२९॥ वरं स्वात्मा स्वयं दान्तो न स्यादाधिस्तथाकृते । परैर्दान्तस्तु सोढाऽसौ वध-बन्धादि-सङ्कटम् ॥३०॥ एवमाभाषितो हस्ती तया देवतया तदा । सञी विज्ञाय तद्भावं स्वयमालानमाश्रयत् ॥३१॥ ततस्तत्र सुखं तिष्ठन् सरसाहारभोजनम् ।
सत्कुथान् सदलङ्कारान् भजन् राज्यमवर्धयत् ॥३२॥ इति स्वयमात्मदमने सेचनककथा ॥१६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org