________________
प्रथमं विनयाध्ययनम्
मध्ये ग्रामं तदपरे मद्यमानेतुमागताः । इतश्च दैवयोगेन चिन्तितं मांसप्रकृभिः ॥२९।। मांसाधू विषसंपृक्तं क्रियते ग्रामयायिनाम् । दीयते धेनु-माहिषं येन नः सकलं भवेत् ॥३०॥ मद्यस्यार्धे विष क्षेप्यं ग्रामगैरित्यचिन्ति च । तथैव तैः कृतं सर्वैरितः सूर्योऽस्तमागमत् ॥३१॥ सर्वे ते मिलिताश्चौरा: पपुश्चाश्नन् यथेप्सितम् । व्रतभङ्गभयात् किन्तु तावभुङ्क्तां न सोदरौ ॥३२॥ अदान्तकरणात्मानो मृताः सर्वे पलाशिनः । कुगतौ दुःखिनो जाताश्चिरमन्यौ जिजीवतुः ॥३३॥ अमुत्र प्रेत्य चैताभ्यां दान्तजिह्वेन्द्रियत्वतः ।
सुखं भेजे सुदान्तव्यः स्वात्मेन्द्रियजयादतः ॥३४।। रसनेन्द्रियेणात्मदमे चौरद्वयकथा ॥१५॥ किं भावयन्नात्मानं दमयेदित्याह
वरं मे अप्पा दंतो संजमेण तवेण य ।
माहं परेहिं दम्मतो बंधणेहिं वहेहि य ॥१६॥ व्याख्या-वरं प्रधानं मे मयाऽऽत्मा जीवस्तदाधारभूतो देहो वा दान्तः सावद्यव्यापाराद् व्यावर्तितः संयमेन पञ्चाश्रवविरमणादिना तपसा च । माऽहं परैरात्मव्यतिरिक्तैः 'दम्मंतो त्ति' आर्षत्वाद् दमितो बन्धनैर्वर्धादिकृतैर्मयूरबन्धादिभिर्वधैश्च लकुटादिताडनैर्वरमतः स्वयमेवात्मा दान्तव्यः सेचनकहस्तिवत् । तथाहि
गहनायां महाऽटव्यां करियूथमभूत् क्वचित् । सल्लकीपल्लवस्यन्दसमास्वादेन मेदुरम् ॥१॥ तत्र यूथपतिर्जातमात्रं दर्पादहन् गजम् । मा मामयं निहत्य स्यात् क्रमाद् यूथपतिः स्वयम् ॥२॥ तत्रैकाऽऽपन्नसत्त्वाऽभूत् करिणी सा व्यचिन्तयत् । जातमात्रं सुतं यूथपतिर्मे मारयिष्यति ॥३।। वरं वन्ध्या सदा नारी न तु जातमृतार्भका । दुःखिनी वपुषा नाद्याऽपरा प्रसवदुःखिनी ॥४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org