SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ उत्तरज्झयणाणि-१ पारदारिकता-चौर्य-मांसास्वादादिपाप्मनः । अदान्तात्मकताहेतुस्तच्च हेतुरशर्मणाम् ॥१५।। स इन्द्रियदमद्वारा दम्यते तत्त्ववेदिभिः । हृषीकाण्यनिरुद्धानि निःशेषापन्निबन्धनम् ॥१६॥ एतानि सर्वतो जेतुं शक्यानि न भवादृशैः । तेषां देशजये यत्नं कुरुतं चेत् सुखेप्सुता ॥१७|| स्वल्पोऽप्याराधितो धर्मः श्रिये प्रतिभवं भवेत् । यथैव हि सतां प्रीतिः सन्तानेऽप्यनुगामिनी ॥१८॥ ताभ्यामथ प्रत्यपादि यद् भवेच्छक्यमावयोः । तत् पुण्यं कर्म कर्तव्यतयाऽऽदिशत नौ द्रुतम्'' ॥१९॥ "महाधर्माक्षमतया विचार्योदर्कसौष्ठवम् । रात्रिभुक्तिविरत्याख्यव्रतमाहात्म्यमादिशत् ॥२०॥ मांसाशिनो महादृष्टयाः पिशाचा रजनीचराः । विटालयन्ति यद् भोज्यं तद् भुञ्जीतात्र को निशि ? ॥२१॥ कीटिका बुद्धिनाशाय वमनाय च मक्षिका । यूका जलोदराय स्यात् कुष्टरोगाय कौलिकः ॥२२॥ वाल: स्वरस्य भङ्गाय गलभेदाय कण्टकः । कुन्थ्वादिसूक्ष्मजीवानां विनाशश्चापि पाप्मने ॥२३॥ मिनुयात् सागराम्भांसि गणयेद् गाङ्गवालुकाः । रात्रिभोजनदोषाणां जानीयात् कः परं मितिम् ? ॥२४॥ तदन्यत्राक्षमत्वेऽपि भाविकल्याणहेतवे । रात्रिभुक्तिपरिहारे यतेथां सत्त्वशालिनौ !" ॥२५॥ ताभ्यामात्ते व्रते तस्मिन् दायमाधाय साधवः । प्रचेलुः पावनम्मन्यौ तौ किञ्चिदनुजग्मतुः ॥२६॥ निवृत्त्याथ निजं गेहमागत्यातिष्ठतां सुखम् । ते सर्वेऽप्यन्यदा चौराः क्वचिद् धाटीं ययुस्तमाम् ॥२७|| धेनु-माहिषमानीतं भूरि संमील्य तैस्ततः ।। तत्रैके पथि तन्मांसं संस्कर्तुमुपचक्रमुः ॥२८॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy