________________
प्रथमं विनयाध्ययनम्
• ब्रूथ प्रयोजनं किञ्चित् कुरुतानुग्रहं च नौ । मुनयोऽपीदमाचक्षुर्वर्षास्तिष्ठन्ति साधवः ॥५॥ पन्थानो हरिदाक्रान्ताः प्रचलत्रससङ्कलाः । वहद्बहुलनीरौघा विहारो नोचितस्ततः ॥६॥ सौम्यावुपाश्रयश्चेत् स्यात् तदाऽत्र सुखमास्महे । ताभ्यामपि प्रहृष्टाभ्यां दत्तोऽसौ ते स्थिता इह ।।७।। आख्याता मुनयस्ताभ्यां तिष्ठद्भिश्च समाधिना । पर्याप्तमन्नमादेयमावयोरेव वेश्मसु ।।८।। मुनयोऽप्यूचुरुचितं न नो नियतवेश्मसु । पुष्पन्धयसमानानां पिण्डादानं निरन्तरम् ।।९।। यथोचितं तद् गेहेषु चरिष्यामोऽत्र भिक्षवः ।
पुण्यं वसतिदानेन युवाभ्यां प्रचुरं चितम् ॥१०॥ उक्तं च
"जो देइ उवस्सयं जइवराण तव-नियम-जोग-जुत्ताणं । तेणं दिन्ना वत्थन्न-पाण-सयणासणवियप्पा ॥१॥ पावइ सुर-नर-रिद्धी सुकुलुप्पत्ती य भोगसामिद्धी । नित्थरइ भवमगारी सिज्जादाणेण साहूणं" ॥२॥ तच्छ्रुत्वा तौ महाऽऽनन्दभरनिर्भरचेतसा । धन्यम्मन्यावसेवेतां स्वाचारनिरतान् मुनीन् ॥११॥ अथ क्रमादतिक्रान्ता वर्षाः प्रस्थातुमुत्सुकाः । मुनयस्तावभाषन्त भावादुपचिकीर्षवः ॥१२॥ "भो भोः ! वर्षाश्चतुर्मासी स्थिता उपयुवद्वयम् । तदङ्गीकुरुतं किञ्चित् पुण्यमस्मन्मनोमुदे ॥१३॥ पुण्यमात्मदमादेव तददान्तात्मनो न हि ।
यथा यथा तदाधिक्यं पुण्यवृद्धिस्तथा तथा ।।१४।। १. यो ददात्युपाश्रयं यतिवराणां तपो-नियम-योग-युक्तानाम् ।
तेन दत्ता वस्त्रान्न-पान-शयनासनविकल्पाः ॥१॥ प्राप्नोति सुरनरद्धिं सुकुलोत्पत्तिं च भोगसमृद्धिम् । निस्तरति भवमगारी शय्यादानेन साधूनाम् ॥२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org