SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ २४ तद्दर्शनामृतादेवोपद्रवः प्रलयं गतः । तुतोष भूपतिः पौरास्तुतुषुः सोऽभ्यपूजि च ॥१३॥ साधुरेवं मलक्लिन्नस्तद्वद् विकृतरूपभाक् । पूज्यमानो निन्द्यमानः प्रियाप्रियसमो भवेत् ॥ १४॥ इति भूतोदाहरणम् ॥१४॥ क्रोधाद्यसत्यताकरणं चात्मदमन एव स्यादतस्तदुपदेशं तत्फलं चाह अप्पा चेव दमेयव्वो अप्पा हु खलु दुद्दम । अप्पा दंतो सही होइ अस्सि लोए परत्थ य ॥१५॥ व्याख्या- -आत्मा चैव दान्तव्य इन्द्रिय- नोइन्द्रियदमेनेष्टानिष्टविषयेषु रागद्वेषवशादुन्मार्गगामी शमयितव्यः । आत्मा 'हुरेवार्थे' खलुर्यस्माद् दुर्दमो दुर्जयस्तद्दमने दमिता एव बाह्यदम्या इति । यतः - " सव्वमप्पे जिए जियं" । एवं को गुणः ?, आत्मा दान्तः सुखी भवत्यस्मिल्लोके परत्र च । दान्तात्मानो हीहैव सुरैरपि पूज्यन्ते, मोक्षं च साधयन्त्यदान्तात्मानस्तु शब्दादिविषयगृद्धा इहैव विनश्यन्ति । यदुक्तम् "संद्देण मओ रूवेण पयंगो महुयरो य गंधेणं । आहारेण य मच्छो बज्झइ फरिसेण य गइंदो" ॥१॥ परत्र च दुर्गतौ दुःखभाजः स्युरित्यात्मा दान्तव्य एव चौरद्वयवत् । तथाहि — संनिवेशे क्वचिच्चौरावभूतां द्वौ सहोदरौ ॥ प्रकृत्या सरलौ किन्तु व्यापृतौ चौर्यकर्मणि ॥१॥ अन्यदा सह सार्थेन गच्छतामनगारिणाम् । महांस्तपात्ययः प्राप्तो भृशं वर्षनाघनः ||२|| इदानीं नोचिता चर्येति ध्यात्वा साधवोऽगमन् । संनिवेशे तयोश्चौरनाथयोरन्तिकं ततः ॥३॥ उत्तरज्झयणाणि - १ मुनीनां दर्शनं भाग्यलब्धमित्थं प्रमोदतः । अभ्युत्थायाथ ते ताभ्यां प्रणता भणिता इति ॥४॥ १. सर्वमात्मनि जिते जितम् । २. शब्देन मृगो रूपेण पतङ्गो मधुकरच गन्धेन । आहारेण च मत्स्यो बध्यते स्पर्शेन च गजेन्द्रः ॥ १ ॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy