________________
उत्तरज्झयणाणि-१ प्राणेभ्योऽपि प्रियं बन्धुं विनिहत्य निरागसम् । सुस्थम्मन्योऽभवः पापाधुना तत्फलमाप्नुहि ॥९॥ अयं कौक्षेयकस्तीक्ष्णो रे रे ! चिरबुभुक्षितः । परमां पुष्टिमाधत्तां त्वत्प्राणक्षीरभोजनात् ॥१०॥ कुरु शस्त्रं करे किञ्चित् स्मरणीयं स्मर द्रुतम् । वद कुत्र हतो भ्राता त्वां तत्राहन्म्यहं यतः ।।११।। आतङ्कवेपमानाङ्गः शून्यपक्षो जिजीविषुः । स बभाण मया भ्राता यत्र कुत्रापि ते हतः ॥१२॥ परं भोः ! शरणप्राप्तो यत्र कुत्रापि हन्यते ।। तत्रैव प्रहर त्वं मां सूरोऽसि निपुणोऽसि चेत् ।।१३।। तच्छ्रुत्वा जननीवक्त्रं स व्यलोकत शद्धधीः । तयाऽपि सत्त्वमालम्ब्य प्रोचे सकरुणं सुतः ॥१४॥ साधु वत्स ! त्वमोजस्वी वीरसूरस्मि च त्वया । यदेवं बन्धुहन्तारं दशां दीनामुपानयः ॥१५॥ विश्रब्धं शरणप्राप्तं प्रणतं व्यसनागतम् । अक्षम रोगिणं दीनं न घ्नन्त्येव सुपौरुषाः ॥१६।। वैर्यपि स्वगृहप्राप्तो भवेद् मान्यो महात्मनाम् । गृहागतस्य शुक्रस्य गुरुरप्युच्चतां ददौ ।।१७।। सुतोऽप्युवाच भ्रातृघ्ने मातर्मेऽनुशयो महान् । कथं तं सफलं कुर्वे करुणातोऽप्रहत्य तम् ॥१८॥ सवित्र्युवाच चातुर्यचारो ! सफलता रुषः । सर्वत्र पुत्र ! नाधेया कर्तव्यं स्वकुलोचितम् ॥१९॥ अहते शरणप्राप्ते स्फीततां लभते यशः । असत्यं कुरु तत् कोपमेनं मुञ्च तपस्विनम् ॥२०॥ असौ तेन ततो मुक्तः क्षामितागास्तयोः पदम् ।
पतित्वा तावनुज्ञाप्य गतस्तस्थुः समे सुखम् ॥२१।। इति क्रोधासत्यतायां कुलपुत्रककथा ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org