SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रथमं विनयाध्ययनम् गुरुचित्तानुगमनमेवाह नापुट्ठो वागरे किंचि पुट्ठो वा नालियं वए । कोहं असच्चं कुव्विज्जा धारिज्जा पियमप्पियं ॥१४॥ व्याख्या-नापृष्टः कथमिदमित्याद्यजल्पितो गुरुणा व्यागृणीयाद् वदेत्, तथाविधं कारणं विना किञ्चित् स्तोकमपि । किञ्चापृष्ट इति न केवलं गुरुणैव, किन्तु केनचिदन्येनापीति भावः । पृष्टो वा नालीकमसत्यं वदेत् । कारणान्तरेण च गुरुभिनिर्भत्सितोऽपि न तावत् क्रुध्येत् । कथञ्चिदुत्पन्नं क्रोधं तदुत्थकुविकल्पविफलीकरणेनासत्यं कुर्वीत, तद्विपाकमालोचयन् । यतः "क्रोधः परितापकरः सर्वस्योद्वेगकारकः क्रोधः। वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता" ॥१॥ एवं मानादिविफलीकरणमप्यभ्यूह्यम्, भ्रातृवधकवत् कस्यचित् कुलपुत्रस्य सूरस्य सरलात्मनः । बान्धवो वैरिणा जघ्ने पातयित्वा स्थले क्वचित् ॥१॥ शुचार्त्तया जनन्या स ऊचे रे क्लीब पुत्रक ! । त्वयाऽहं पुत्रिणी मन्ये वृथैव क्लैब्यशालिना ॥२॥ अनागतापराधं स्वविक्रमाद् यो विपन्थिनम् । भीतो भाव्यपराधेभ्यो निहन्ति स भटोत्तमः ॥३॥ कृतेऽप्यपकृते शत्रु नापकुर्वीत यो हठात् । आकारेणैव पुरुषः स चञ्चापुरुषोपमः ॥४॥ पौरुषस्य लवोऽपि स्याद् यदि ते तत् सहोदरे । हते हन्तारमेतस्याहत्वा स्याः सुस्थितः कथम् ? ।।५।। धिग् विधि सारभूतोऽब्धे रत्नानीव सुतो हृतः । शेषीकृतः पुनरयं क्षारनीरमिवोल्बणम् ॥६॥ इति प्रसूवचः श्रुत्वा जागरूकपराक्रमः । मातृशोकचिकित्सायै बद्ध्वा तं गृहमानयत् ।।७।। सवित्रीपुरतः सव्यमुष्ट्योपात्तकचस्ततः । कौक्षेयकं समुत्पाट्य स तेनोचे सुकर्कशम् ।।८।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy