________________
उत्तरज्झयणाणि-१ ततो रे दुष्ट ! नो सम्यगध्वाऽयं प्रत्यलेखि यत् । भग्नो मत्क्रम इत्युक्त्वा दण्डेनैनमताडयत् ॥३७॥ पुस्फोट च शिरस्तस्य सोऽपि साक्रोशवेदनाम् । सेहेऽमृतच्छटाघातं मन्वानोऽचिन्तयत् पुनः ॥३८॥ स्वसाधुवृन्दमध्येऽसौ नित्यं तिष्ठन् यथासुखम् । हा ! मया व्यसनेऽपाति शुद्धात्माऽयं गुरुर्मुधा ॥३९॥ धन्यास्ते ये गुरौ भक्ता निर्व्याबाधं प्रकुर्वते । तत्तद्रव्यादिसामग्रीसम्पादनसुखं गुरोः ॥४०॥ सम्यगस्खलितं मार्गे कथं नेष्याम्यमुं निशि । समुत्पादयिता वाऽस्य समाधि कथमप्यहम् ॥४१॥ प्रयत्नाद् व्रजतोऽस्यैवं शुभभावोऽप्यवर्धत । ध्यानं शुक्लमपि प्राप्य ज्ञानं केवलमाप च ॥४२॥ अथ सम्यग् व्रजत्यस्मिन्नित्यध्यासीद् गुरुस्तदा । दण्डोऽहो ! मर्मदत्तोऽस्य कुशिष्यत्वं व्यपाकरोत् ॥४३।। कदाचन निजांसेनाङ्गल्यग्रेण कदाचन । निर्वाहयन् निजगुरुं सोऽनैषीत् सकलां निशाम् ॥४४॥ अथ प्रत्युषसि प्राप्ते दृष्ट्वा रक्तखरण्टितम् । तं प्रत्यागतवैराग्यः शान्तो गुरुरचिन्तयत् ॥४५॥ शिष्यकस्याप्यहो ! क्षान्तिरवाच्या काचिदद्भुता । गुरोरपि मम क्रोधो गीतार्थस्येति कौतुकम् ॥४६।। भक्ते निरपराधेऽपि चिरं प्रव्रजितस्य मे । योऽसौ क्रोधोदयः सोऽयं जलादग्निरनिन्धनः ॥४७॥ प्राप्ताचार्यपदस्यापि परशिक्षाऽधिकारिणः ।। ममात्युत्कटरोषस्य दग्धदीक्षस्य का गतिः ? ॥४८॥ इत्यादि भावयंस्तीव्र धर्मध्यानशलाकया । मनो भित्त्वोन्मनीभावं शुक्लं चाप च केवलम् ॥४९॥ एवं शिष्यैस्तथा भाव्यं विनीतैः क्षान्तिलालसैः ।
यथा स्वस्य गुरोश्चापि हितमेवं विजृम्भते ॥५०॥ इति चण्डरुद्रशिष्यकथा ॥१३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org