________________
प्रथमं विनयाध्ययनम्
व्रतमग्राहयच्चापि भीतास्तत्तेजसाऽथ ते । नोपाद्रवंस्तं किन्त्वाहुमित्रं कुरु पलायनम् ।।२३।। भव्यत्वपरिपाकेन सोऽपि दध्यौ श्रितो ह्यसौ । पन्था एभिर्विमुक्त्यर्थं मयाऽपि प्रापि भाग्यतः ॥२४।। आलस्येऽपि हि यद् वाक्यमुक्तं पाल्यं तु तत् सताम् । अभ्यर्थ्य यद् गृहीतं तद् व्रतं त्याज्यं कथं भवेत् ? ॥२५॥ शिरः सर्वस्य गात्रस्य श्रेष्ठं शोभाऽस्य सत्कचैः । गतायां लुञ्चनात् तस्यां वरमात्मविभूषणम् ॥२६॥ सम्प्रत्यस्ति प्रमोदो मे तादृशः कश्चिदद्भुतः । येनेदं व्रतमाचीर्णं मे शुभाय भविष्यति ॥२७॥ भावश्रमणतामेवं प्राप्तमेनं विबुध्य ते । सुहृदस्तत्कुटुम्बस्यावेदनायागमन् पुरीम् ॥२८॥ विनयः शासने मूलं विनीतः संयतो भवेत् । आराध्या गुरवश्चेति वेद तत्त्वं स तत्क्षणात् ॥२९॥ अभ्यधात् प्राञ्जलिश्चैष गुरुं स्वामिन् ! निशम्यताम् । उत्प्रावाजयितारो मां बान्धवाः स्निग्धचेतसः ॥३०॥ राजमान्याश्च तेऽनर्थं कारयिष्यन्ति भूपतः । प्रेयोवियोगे प्रणयी कार्याकार्यं न चिन्तयेत् ॥३१॥ तद् भाव्यपायकृत् त्याज्यं छन्नं शीघ्रमिदं पदम् । ज्ञायन्ते न वरं यान्तो बहवस्तु तपोधनाः ॥३२॥ मया सैकास्ततो यूयमतः प्रस्थातुमर्हथ । गुरुराख्यदिदं सत्यं किन्त्वध्वानं विशोधय ॥३३॥ निशायामस्ति गन्तव्यं यन्निशीथोऽस्त्युपस्थितः । तथा कृत्वा गते तस्मिश्चेलतुस्तावुभौ ततः ॥३४॥ गुरुणाऽग्रे व्रजेत्युक्ते शिष्ये याति तदग्रतः । चण्डरुद्रो निशाध्वान्ते स्थाणौ क्वाऽप्यस्खलद् व्रजन् ॥३५॥ तज्जन्यां वेदनां प्राप बाढं चानुशयोदयम् । अध्यासीद् धिगिमं शिष्यं मत्कष्टायोपढौकितम् ॥३६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org