________________
उत्तरज्झयणाणि-१ हास्यान्मुनीन् ववन्देऽसौ सुलभाद् यौवनोदये ।
आचचक्षे च धर्मार्थी साधुसेवारतोऽस्म्यहम् ।।९।। तेन मे कथ्यतां धर्मः साधवोऽपि सकैतवीम् । तद्वाचमाकलय्याथ मौनमेवादधुस्तमाम् ॥१०॥ तादृग्मित्रसमुद्भूतहास्योत्साहादयं पुनः । बभाषे श्रमणाः साम्यभाजः सर्वाङ्गितारणे ॥११।। अहमप्यस्मि निविण्णो गृहवासात् स्वकान्तया । दुर्भगत्वेन यत् त्यक्तोऽक्षमोऽस्मि च धनार्जने ॥१२॥ अनुग्रहमतः कृत्वा दत्त दीक्षां भवावनीम् । सदाऽवकानां को वृत्तिं को काक्षेत भवादृशाम् ? ॥१३।। इति श्लिष्टं वचः श्रुत्वा घृष्यतां कलिना कलिः । प्रविचिन्त्येत्यवञ्च्यास्ते मुनिप्रष्ठास्तमभ्यधुः ॥१४॥ पश्य पश्य वनैकान्तेऽस्मद्गुरुं व्रतदायकम् ।। दीक्षार्थी व्रज तत्र त्वं वयं ह्यनधिकारिणः ॥१५।। ततः साधु ब्रुवाणास्ते वादयन्तश्च तालिकाम् । हास्याय स्यात् सुखेनायमेक इत्येनमभ्यगुः ।।१६।। तमप्यानम्य सोऽवादीत् प्रव्राजयसि मां यदि । सुखमासे तदा द्रव्यार्जनक्लेशविवर्जितः ॥१७|| क्लीबं मां नेहते कान्ता क्लीबोऽहं तु न तामपि । मया गृहाश्रमत्यागात् तस्मात् साध्योऽयमाश्रमः ॥१८।। आचार्योऽप्यथ धिक् पापं ध्यानघ्नमिति रोषतः । आह तड्डौकयध्वं भोः ! रक्षा तां तेऽप्यढोकयन् ॥१९॥ एतु योऽस्त्यत्र दीक्षार्थी सुखार्थी च भवद्वये । गुरुणेत्युदिते सोऽथोपसृत्याग्रेऽभ्युपाविशत् ॥२०॥ शक्यं नास्य व्रतं दातुं न दत्तं पालयिष्यति । सुहृत्स्वेवं च वदत्स्वेनं लघुहस्ततयाऽग्रहीत् ॥२१।। जानुभ्यां गाढमाक्रम्यापि च लोचमुपाक्रमत् । भापयंस्तान् दृशौजस्वी तत्क्षणात् तं समापयत् ।।२२।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org