________________
प्रथमं विनयाध्ययनम्
१७ एवारोहकाभिप्रायं चेष्टते, तथा विनयवानपि वचनाऽप्रेरित एव गुर्वभिप्रायमासेवते, मा भूदारोहकस्येव गुरोरायास इति भावः ॥१२॥
अविनीत–विनीतयोर्दोष-गुणावाह
अणासवा थूलवया कुसीला मिउं पि चंडं पकरंति सीसा । चित्ताणुया लहु दक्खोववेया पसायए ते हु दुरासयं पि ॥१३॥
व्याख्या–अनाश्रवा गुरुवचस्यस्थिताः स्थूलवचसोऽनिपुणभाषिणः कुशीला:, मृदुमकोपनमपि गुरुं चण्डकोपनं प्रकुर्वन्ति शिष्याः । इत्थं गल्यश्वतुल्यस्य दोषमुक्त्वेतरस्य गुणमाह-चित्तानुगाः कशपातानपेक्ष्य जात्याश्ववद् गुरोर्हृदयानुवर्तिनः । लघु शीघ्रं दाक्ष्येणाविलम्बितकारित्वेनोपपेताः प्रसादयेयुः प्रसादपरं कुर्युस्ते इति शिष्याः । हुः पुनर्दुःखेनाश्रीयते योऽतिकोपनत्वादिभिरिति दुराश्रयस्तमपि प्रक्रमाद् गुरुम्, किं पुनरनुत्कटकषायमित्यपेरर्थः । अत्रार्थे चण्डरुद्राचार्यशिष्यकथा । तथाहि
अस्त्यवन्ती पुरी रम्या मन्ये हृतवसुर्यया । शिप्रारूपोऽब्धिरभ्येत्यैतदर्थं यां निषेवते ॥१॥ अन्यदा कुसुमोद्याने तस्याश्चारित्रचारवः । आयुयुर्मुनयस्तेषामाचार्यश्चण्डरुद्रकः ॥२॥ कोपन: सहजेनैष मुनीनां किञ्चिदप्यहो ! । न्यूनातिरिक्तमाचारं निरीक्ष्यातीव कुप्यति ॥३॥ सूरिमन्त्र-श्रुताभ्यास-सुधासिक्तोऽपि नाशमत् । तस्य चेतसि कोपाग्निव्रतमोहमरुच्चयात् ॥४॥ परिहत्य ततो दृष्टिं गरोर्गरुहितैषिणः । साधवस्तरुमूलेषु स्थित्वा स्वाध्यायमादधुः ॥५।। सोऽपि क्रोधोदयं तीव्र स्वस्य बुध्यन् जनाकुले । तन्निवृत्यै वनैकान्ते गत्वाऽस्थाद् ध्यानसुस्थितः ।।६।। इतश्च कश्चिदिभ्यस्य सुतो नवरस्तदा । उद्वाहोचितनेपथ्यः कुङ्कुमाद्यङ्गरागवान् ॥७॥ तरुणः सरलः स्वीयसुहृद्भिरतिबालिशैः । मत्तैश्च युवभिर्युक्तस्तत्रागात् सुकृतेरितः ॥८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org