________________
१६
उत्तरज्झयणाणि-१ व्याख्या-'मा' इति निषेधे, चः समुच्चये । चण्ड: क्रोधस्तद्वशादलीकं चण्डालीकं, लोभाधुपलक्षणं कार्षीः 'हे शिष्य !' इति शेषः । यतः
"मुसावाओ य लोगंमि सव्वसाहूहिं गरहिओ ।
अविस्सासो य भूयाणं तम्हा मोसं विवज्जए ॥१॥" बहुकमपरिमितमालजालरूपं 'मा चेति प्राग्वत्' आङिति राजादिकथाऽभिव्याप्त्याऽऽलपेत्, बह्वालपनाद् ध्यानाध्ययनक्षति-वातक्षोभादि सम्भवात् । किं पुनः कुर्यात् ? कालेनाद्यपौरुष्यादिना च पुनरधीत्य 'प्रच्छनाद्युपलक्षणमेतत्' ततोऽध्ययनाद् ध्यायेच्चिन्तयेद् 'आज्ञापायादिकम्' इति गम्यते । एकको द्रव्यतो विविक्तशय्यादिसंस्थः, भावतो रागादिरहित इति । इत्थं हि चण्डालीकाद्यनुत्थानम्, अधीतार्थस्थिरीकरणं च कृतं भवतीति भावः ॥१०॥ इत्थमकृत्यनिषेधः, कृत्यविधिश्चोक्तः । कदाचित् तद्विपर्यये किं कार्यमित्याह
आहच्च चंडालियं कट्ट न निन्हविज्ज कयाइ वि ।
कडं कड त्ति भासिज्जा अकडं नो कड त्ति य ॥११॥ व्याख्या-आहत्य कदाचिच्चण्डालीकं कृत्वा न निह्नवीत, कदाचित् परैरुपलक्षितोऽनुपलक्षितो वा न कृतमेवेति नापलपेत् । किं तर्हि कुर्यात् ? कृतं चण्डालीकादि कृतमिति कृतमेव भाषेत, न भय-लज्जादिभिरकृतमपि । तथा तदेवाकृतं नो कृतमित्यकृतमेव भाषेत, न तु मायोपरोधादिना कृतमप्यन्यथा मृषावादादिदोषसम्भवात् । तथा च मनःशल्यं यथावदालोचयेदिति भावः ॥११।।
पुनः पुनः प्रवृत्ति-निवृत्त्यवसरे गुरूपदेशादेव प्रवृत्ति-निवृत्ती कार्ये इत्याशङ्काऽपनोदार्थमाह
मा गलियस्सेव कसं वयणमिच्छे पुणो पुणो ।
कसं व दट्ठमाइण्णे पावगं परिवज्जए ॥१२॥ व्याख्या—मा निषेधे गल्यश्व इवाविनीताश्व इव कशमिव चर्मयष्टिमिव वचनं प्रवृत्ति-निवृत्तिविषयमर्थाद् गुरूणामिच्छेदभिलषेत् पुनः पुनः । किन्तु 'कसं व दट्ठमाइण्णे त्ति' कशमिव गुरोराकारादि दृष्ट्वैवाकीर्णाश्व इव विनीताश्व इव शिष्यः पापकमशुभानुष्ठानं वर्जयेदुपलक्षणाच्छुभमनुतिष्ठेत् । यथा ह्याकीर्णोऽश्वः कशेनाऽऽताडित
१. मृषावादश्च लोके सर्वसाधुभिर्गहितः । __ अविश्वासश्च भूतानां तस्मान्मृषां विवर्जयेत् ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org