________________
प्रथमं विनयाध्ययनम्
ततः कृत्यं फलं चाह—
तम्हा विणयमेसिज्जा सीलं पडिलभे जओ । बुद्धपुत्ते नियागट्ठी न निक्कसिज्जइ कण्हुई ॥७॥
व्याख्या - तस्माद् विनयमेषयेद् ' धातूनामनेकार्थत्वात्' कुर्यात् । किं पुनरस्य विनयस्य फलम् ? इत्याह- शीलं प्रागुक्तं प्रतिलभेत प्राप्नुयात् । 'जओ त्ति' यतो विनयात्, ततः किं स्यात् ? बुद्धानामाचार्यादीनां पुत्र इव पुत्रः शिष्यो बुद्धपुत्रः " पुत्ता य सीसा य समं विभत्ता " इति वचनात् । नितरां यागः पूजा यस्मिन् स नियागो मोक्षस्तदर्थी सन् न निष्कास्यते 'कण्हुइ त्ति' कुतश्चिद् गणादेः, किन्तु विनीतत्वेन सर्वत्र मुख्यः क्रियते इति भावः ||७||
कथं पुनर्विनयः कार्य इत्याह
निसंते सिया अमुहरी बुद्धाणं अंतिए सया । अजुत्ताणि सिक्खिज्जा निरठ्ठाणि उ वज्जए ॥ ८ ॥
व्याख्या — नितरां शान्त उपशमवान् अन्तः क्रोधत्यागेन, बहिश्च प्रशान्ताकारतया निशान्तः स्यात् । अमुखरो नासम्बद्धभाषी । बुद्धानामाचार्यादीनामन्तिके समीपे सदा अर्थयुक्तानि हेयोपादेयार्थवाचकान्यर्थादागमवचांसि शिक्षेताभ्यस्येत् । निरर्थकानि तु डित्थादीनि, स्त्रीकथादीनि वा वर्जयेत् ॥८॥
कथं तानि शिक्षेतेत्याह
अणुसासिओ न कुप्पेज्जा खंति सेवेज्ज पंडिए । खुड्डेहिं सह संसगिंग हासं कीडं च वज्जए ॥ ९ ॥
व्याख्या – अनुशिष्टोऽर्थयुक्तानि शिक्षमाणः कथञ्चित् स्खलितादिषु कठोरोक्त्याऽपि गुरुभिः शिक्षितोऽपि न कुप्येत् न कोपं गच्छेत् । किं तर्हि कुर्यात् ?, क्षान्ति परुषभाषणादिसहनरूपां सेवेत भजेत पण्डितस्तत्त्वानुयायिधीमान् तथा क्षुद्रैर्दुःशीलैः पार्श्वस्थादिभिः सह संसर्ग हासं क्रीडां चान्ताक्षरिका - प्रलिकादानादिजनितां वर्जयेत्, लोकागमविरुद्धत्वात् ॥९॥
पुनर्विनयमाह
माय चंडालियं कासी बहुयं मा य आलवे ।
काले य अहिज्जित्ता तओ झाएज्ज एकओ ॥१०॥
१५
१. पुत्राश्च शिष्याश्च समं विभक्ताः ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org