________________
१४
उत्तरज्झयणाणि-१ अथास्यैव दृष्टान्तेन सदोषतामाह
जहा सुणी पूइकण्णी निक्कसिज्जइ सव्वसो ।
एवं दुस्सीलपडिणीए मुहरी निक्कसिज्जई ॥४॥ व्याख्या-यथा शुनी 'स्त्रीनिर्देशोऽतिकुत्सार्थप्रदर्शक:' पूती कुथितगन्धौ कर्णौ यस्याः सा पूतीकर्णी 'सर्वावयवकुत्सोपलक्षणम्' निष्कास्यते । 'सव्वसो त्ति' सर्वतो गृहादेः 'सूत्रे च्छान्दसत्वात् शस्प्रत्ययः' । एवं दुःशीलो दुराचारः । प्रत्यनीकः प्राग्वत् । मुखरोऽसम्बद्धभाषी वाचाटो वा । निष्कास्यते सर्वतः कुल-गण-सङ्घादेर्बहिः क्रियते ॥४॥ यथाऽसौ दौःशील्ये रमते, तथा दृष्टान्तेनाह
कणकुंडगं चइत्ताणं विटुं भुंजइ सूयरो ।
एवं सीलं चइत्ता णं दुस्सीले रमई मिए ॥५॥ व्याख्या-कणास्तन्दुलास्तेषां तन्मिश्रो वा कुण्डकः कुक्कुसः कणकुण्डकस्तं त्यक्त्वा विष्टां पुरीषं भुङ्क्ते सूकर इति गर्तासूकरो 'यथा' इति गम्यते । एवं शीलं शुभाचारं त्यक्त्वा दुःशीले दुराचारे रमते धृतिमाधत्ते । 'मिए त्ति' मृगोऽज्ञत्वादविनीतः, अयं भावः-यथा मृगो गीतादिगृद्धिहेतुकमायतौ मृत्युरूपापायमपश्यन्नज्ञः, एवमयमपि दौःशील्यहेतुकमागामिनं भवभ्रमणापायमवगणयन्नज्ञः सन् शूकर इव पुष्टिकरकणकुण्डकोपमं शीलं हित्वा विष्टोपमे दौःशील्ये रमत इति ॥५॥ कृत्यमाह
सुणियाभावं साणस्स सूयरस्स नरस्स य ।
विणए ठविज्ज अप्पाणं इच्छंतो हियमप्पणो ॥६॥ व्याख्या-श्रुत्वा 'नञः कुत्सार्थत्वाद्' अभावमशोभनभावं सर्वतो निष्कासनरूपं 'साणस्स त्ति' प्राकृतत्वात् शून्याः, सूकरस्य तदुपमस्य नरस्य च । किं कुर्याद् ? इत्याह-विनये स्थापयेदात्मानमात्मना । किं कुर्वन्निच्छन् वाञ्छन् हितं पथ्यमैहिकामुष्मिकं चात्मनः स्वस्य । हितं च विनयादेव स्यात् । उक्तं हि
"विणया नाणं नाणाओ दंसणं दंसणाओ चरणं च । चरणाहिंतो मुक्खो मुक्खे सोक्खं निराबाहं ॥१॥" ॥६॥
१. विनयाज्ज्ञानं ज्ञानाद् दर्शनं दर्शनाच्चरणं च ।
चरणान्मोक्षो मोक्षे सौख्यं निराबाधम् ॥१॥
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org