SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ प्रथमं विनयाध्ययनम् चेटकोऽप्याख्यदायुष्मन् ! क्षणमेकं विलम्ब्यताम् । यावत् स्नानं विधायालं वापीमध्ये समेम्यहम् ॥६६।। ततश्चेटकभूपालो बद्ध्वाऽय:पुत्रिकां गले । यावत् पिपतिषुर्वाप्यां ददौ झम्पां समाहितः ॥६७।। स तावद् धरणेन्द्रेण धृत्वा स्वकरसम्पुटे । साधर्मिक इति व्योम्नः पतन् नीतः स्वमन्दिरम् ।।६८॥ तत्र च स कृतानशनः समाश्रिताराधनः शुभध्यानः । कल्पे च सहस्त्रारे शक्रसमद्धिः सुरो जज्ञे ॥६९।। अथ चेटकदौहित्रः सुज्येष्ठाभूः स सत्यकीर्लोकम् । वैशाल्या विद्याभृन्न्यवासयन्नीलवच्छैले ॥७०॥ कौणिकभूपो योत्रितरासभसीरैः पुरीं समाखेट्य । पूरितसन्धश्चम्पां प्रविवेश महामहःपूर्वम् ॥७१।। किञ्च सुभटा बलयोरेका कोटि: प्रथमेऽष्टसप्ततिर्लक्षाः । युधि विंशतिः सहस्रा निहतास्तिर्यक्षु चोत्पन्नाः ।।७२।। द्वैतीयीके तस्मिन् मृताः सहस्रा भटाश्चतुरशीतिः । तिर्यक्षु च निरयेषु च केचन सञ्जज्ञिरे तेषु ॥७३।। तार्तीयीके रणे षण्णवतिसहस्रका हता योधाः । तेषु सहस्रदशकं मत्सीकुक्षौ समवतीर्णम् ॥७४॥ एक: सुकुले चैकः स्वः शेषास्तेष्वगुश्च तिर्यक्षु । सर्वाग्रेणैवैका कोटिरथाशीतिलक्षाश्च ॥७५।। सुभटानां व्यपद्यन्त सैन्ययोरुभयोरपि । एतस्यामवसर्पिण्यां प्रायो नेदृगभूद् रणः ॥७६।। पञ्चभिः कुलकम् सद्गुरुहीलन-गणिकासङ्गार्हत्स्तूपभङ्गसम्भूतात् । पापाद् दुर्गतिमगमत् स मुनिब्रुवः कूलवालोऽपि ॥७७।। इति कूलवालवृत्तं श्रुत्वा भोः ! भव्यमानवास्त्यजत । यदि वाञ्छत शिवसौख्यं सुगुरूणां प्रत्यनीकत्वम् ।।७८॥३॥ इति गुरुप्रत्यनीकत्वे कूलवालककथा ॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy