________________
षोडशं ब्रह्मचर्यसमाधिस्थानाध्ययनम्
अयं फलोदकग्राही ततोऽप्यधिकपातकी । इति चिन्तयति क्ष्मापे शौद्धोदनिरदोऽवदत् ॥२९॥ "मालाविहारे मयि अज्ज दिट्ठा उवासिया कंचणभूसियंगी । वक्खित्तचित्तेण न सुठु णायं सकुंडलं वा वयणं नव त्ति" ॥ भूमानिदमपि श्रुत्वा निर्वैराग्यरसं वचः ।
ब्रह्म
सर्वानपि तिरस्कृत्य तानूचे मन्त्रिपुङ्गवम् ॥३०॥ अयि मन्त्रिन् ! वचोऽमीषां शृङ्गारागारसम्मुखम् । - वैराग्यविमुखं किं यतित्वोचितं भवेत् ? ॥३१॥ अथ बद्धाञ्जलिर्मन्त्री पवित्रमभणद् वचः । अमी ज्ञातचरा एव निर्धर्माण: कुलिङ्गिनः ||३२|| जालमार्गेण शुद्धान्तं पश्यन्ति कथमन्यथा । सूर्यादिव निवार्या हि नारीभ्यो यतिभिर्दृशः ||३३|| इत्याख्याय वालुकासु गमागमनसाधकम् । अदर्शयन्नृपायैतत्पदसङ्क्रममिद्धधीः ||३४|| मिथ्याप्रवादव्यावृत्तप्रतिभोऽथ भुवः प्रभुः । कोऽपि जैनमुनिर्नागादित्युच्चैर्मन्त्रिणां जगौ ॥३५॥ आर्हतः क्षुल्लकोऽपीश ! सुमनाः सुक्रियः सुवाक् । इत्युक्त्वा गोचरगतं प्रातरेनमिहाह्वयत् ॥३६॥
समितो निर्विकाराक्षो निष्कषायो महामतिः ।
गाथापदं गृहीत्वाऽसौ नृपाग्रे तामपूरयत् ॥३७॥
" खंतस्स दंतस्स जिइंदियस्स अज्झप्पजोगे गयमाणसस्स । किं मज्झ एण विचितिएण ? सकुंडलं वा वयणं नव त्ति " ॥ क्षमा-जितेन्द्रियत्वाद्यो हेतुरत्र प्रपञ्चितः ।
सकुण्डलत्वाद्यज्ञाने न तु व्याक्षिप्तचित्तता ||३८||
१. मालाविहारे मयाऽद्य दृष्टा उपासिका कञ्चनभूषिताङ्गी । व्याक्षिप्तचित्तेन न सुष्ठु ज्ञातं सकुण्डलं वा वदनं नवेति ॥ २. क्षान्तस्य दान्तस्य जितेन्द्रियस्य, अध्यात्मयोगे गतमानसस्य । किं ममैतेन विचिन्तितेन ? सकुण्डलं वा वदनं नवेति ॥
Jain Education International 2010_02
For Private & Personal Use Only
४६३
www.jainelibrary.org