SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ४६४ उत्तरज्झयणाणि-१ तदेषोऽध्यात्मयोगानां सर्वेषामप्युपाश्रयः । इति निश्चित्य भूपोऽभूत् तद्धर्मश्रवणोन्मुखः ॥३९॥ स त्वार्द्र-शुष्कमृद्गोलद्वितयं भित्तिसीमनि । आहत्य गन्तुमारब्धो भणितश्च महीभुजा ॥४०॥ अनाख्याय भवान् धर्मं किमिति क्षुल्ल ! गच्छसि । सोऽवक् कथित एवैष मुग्धत्वाद् बुबुधे न तु ॥४१॥ पश्योभयोर्गोलकयोभित्तावलगदादिमः । परस्तु न तथा लग्नोऽनेनैतद् भूप ! भावितम् ॥४२॥ शब्दादिविषयासक्ता ब्रह्मगुप्तिविवर्जिताः । कर्मपङ्कार्द्रभावात् ते लगन्ति भवभित्तिषु ॥४३॥ ये तु क्लेशलतामूलं कामिनीसङ्गमं विषम् । चिन्तयन्तो वीतरागा उद्युक्ता ब्रह्मगुप्तिषु ॥४४॥ क्षान्त्यादिगुणसौन्दर्यात् सिद्धियोषित्कटाक्षिताः । मुनयः शुष्कगोलाभाः क्वचिन्नैव लगन्ति ते ॥४५॥ धर्मः कर्महरः कोऽस्ति शुद्धब्रह्मव्रतात् पर: ? । इत्याख्याय गते क्षुल्ले नृपोऽभूत् परमार्हतः ॥४६।। ॥ इति ब्रह्मगुप्तिकथा ॥१७॥ ग्रं० २२०-१७॥ इति शिष्यश्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां षोडशं ब्रह्मचर्यसमाधिस्थानाध्ययनं समाप्तम् ॥१६॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy