SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ ४५८ उत्तरज्झयणाणि-१ मानिनीमानदलनोत्थं गर्व, सहसा वित्रासितानि च पराङ्मुखदयितादेः सपदि त्रासोत्पादकान्यक्षिस्थगन-मर्मघट्टनादीनि ब्रह्मचर्यरतः स्त्रीणां नानुचिन्तयेन्नानुस्मरेत् 'पूर्वकृतानीति गम्यम्' ॥६॥ पणीयं भत्तपाणं तु खिप्पं मयविवड्डणं । बंभचेररओ भिक्खू निच्चसो परिवज्जए ॥७॥ व्याख्या-मदः कामोद्रेकस्तस्य विवर्धनं विशेषतो वृद्धिहेतु । शेषं सुगमम् ॥७॥ धम्मं लद्धं मियं काले जत्तत्थं पणिहाणवं । नाइमत्तं तु भुंजिज्जा बंभचेररओ सया ॥८॥ व्याख्या-धर्मेण क्षान्त्यादिरूपेण हेतुना न तु भूतिकर्मादिना उत्पादितं धर्म्यं लब्धं प्राप्तं 'गृहस्थेभ्य इति गम्यम्' मितं "अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए । वायपवियारणट्ठा छब्भागं ऊणयं कुज्जा" ॥१॥ इत्यागमोक्तं मानान्वितम् ‘आहारमिति गम्यम्' । काले प्रस्तावे यात्राऽर्थं संयमनिर्वाहार्थं न तु रूपाद्यर्थम् । प्रणिधानवांश्चित्तस्वास्थ्योपेतो न तु राग-द्वेषवशगो नातिमात्रं मात्राऽतिरिक्तं 'तुरेवार्थे' भुञ्जीत ब्रह्मचर्यरतः सदा । कदाचित् कारणतोऽतिमात्रस्याप्याहारस्यादुष्टत्वात् । यतः "केक्खडखेत्तचुओ वा दुब्बल अद्धाण पविसमाणो वा । खीराइगहण दीहं बहुं च उवमा अयकडिल्ले" ॥१॥॥८॥ विभूसं परिवज्जिज्जा सरीरपरिमंडणं । बंभचेररओ भिक्खू सिंगारत्थं न धारए ॥९॥ व्याख्या-विभूषां वस्त्राद्युपकरणगतां परिवर्जयेत् । शरीरपरिमण्डनं नखकेशादिसमारचनादि ब्रह्मचर्यरतो भिक्षुः शृङ्गारार्थं विलासार्थं न धारयेन् न कुर्यात् ।।९।। सद्दे रूवे य गंधे य रसे फासे तहेव य । पंचविहे कामगुणे निच्चसो परिवज्जए ॥१०॥ १. अर्धमशनस्य सव्यञ्जनस्य कुर्याद् द्रव्यस्य द्वौ भागौ । वातप्रविचारणार्थं षड्भागमूनं कुर्यात् ॥१॥ २. रुक्षादिक्षेत्रच्युतो वा दुर्बलोऽध्वानं प्रविशन् वा । क्षीरादिग्रहणे दीर्घा बहु च उपमा 'अय:कडिल्लेन' ॥१॥ www.jainelibrary.org For Private & Personal Use Only Jain Education International 2010_02
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy