________________
४५९
षोडशं ब्रह्मचर्यसमाधिस्थानाध्ययनम्
व्याख्या-शब्दादीन् कामस्य गुणान् साधनभूतानुपकारकान् वर्जयेदिति ॥१०॥ यत् प्राक् प्रत्येकमुक्तं 'शङ्का वा स्यादित्यादि' तद् दृष्टान्तेनाह
आलओ थीजणाइन्नो थीकहा य मणोरमा । संथवो चेव नारीणं तासिं इंदियदरिसणं ॥११॥ कूइयं रुइयं गीयं हसियं भुत्तासियाणि य । पणीयं भत्तपाणं च अइमायं पाण-भोयणं ॥१२॥ गत्तभूसणमिटुं च कामभोगा य दुज्जया । नरस्सत्तगवेसिस्स विसं तालउडं जहा ॥१३॥
आसां व्याख्या-संस्तवः परिचयः ‘स चेहैकासनभोगेनेति प्रक्रमः' । शेषं स्पष्टम् । कूजितादीनि कुड्यान्तराद्यवस्थितिनिषेधरूपाणि, भुक्तासितानि च ‘स्मृतानीति शेषः' तत्र भुक्तानि भोगरूपाणि, आसितानि स्त्र्यादिभिरेव सहावस्थितानि 'हास्याद्युपलक्षणं चैतत्' शेषं सुगमम् ।। गात्रभूषणमिष्टं चेति 'चोऽप्यर्थः' तत इष्टमप्यभिलषितमप्यास्तां कृतं । तथा कामभोगाः शब्दादयः 'चशब्दः समुच्चये' दुर्जया इति कातरैरजेया इष्टाः सन्तः नरस्य 'उपलक्षणात् स्त्र्यादेश्च' आत्मगवेषिणो विषं तालपुटं यथा, तालपुटविषोपमा भवन्तीत्यर्थः । तालपुटं च सद्योघाति यत्रौष्ठपुटान्तरवर्तिनि तालमात्रकालविलम्बितो मृत्युः स्यात् तथा च स्त्रीजनाकीर्णालयादिरपि शङ्कादिकरणतः संयमात्मकभावजीवितस्येतरस्य च नाशहेतुरिति गाथात्रयार्थः ॥११-१२-१३।।
अथ निगमयति
दुज्जए कामभोगे य निच्चसो परिवज्जए । संकाहाणाणि सव्वाणि वज्जिज्जा पणिहाणवं ॥१४॥
व्याख्या-दुर्जयान् कामभोगान् नित्यशः परिवर्जयेत् । शङ्कास्थानानि चानन्तरोक्तानि सर्वाणि दशापि वर्जयेत् । प्रणिधानवानेकाग्रमनाः ॥१४॥
एतद्वर्जकश्च किं कुर्यादित्याहधम्मारामे चरे भिक्खू धिइमं धम्मसारही ।
धम्मारामरए दंते बंभचेरसमाहिए ॥१५॥
व्याख्या-धर्म आराम इव दुःखसन्तापतप्तानां जन्तूनां निवृत्तिहेतुतया वाञ्छितफलप्रदानतश्च धर्मारामस्तस्मिंश्चरेत् प्रवर्तेत भिक्षुः । धृतिश्चित्तस्वास्थ्यं तद्वान् । धर्मसारथिरन्येषां धर्मप्रवर्तयिता । धर्मे आरमन्ते इति धर्मारामाः सुसाधवस्तेषु रत आसक्तिमान्
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org