________________
४४८
उत्तरज्झयणाणि-१
अन्यच्च
खत्तिय-गण-उग्ग-रायपुत्ता माहण-भोइय विविहा य सिप्पिणो । नो तेसिं वयइ सिलोग-पूयं तं परिन्नाय परिव्वए स भिक्खू ॥९॥
व्याख्या-क्षत्रिया राजानो, गणा मल्लादयः, उग्रा आरक्षकादयः, राजपुत्रा राजकुमारा एषां द्वन्द्वः । माहना ब्राह्मणाः, भोगिका भव्यवेषादिभोगवन्तो राजमान्याः । विविधाश्च शिल्पिनः सूत्रधारादयः । 'नो' नैव तेषां क्षत्रियादीनां वदति श्लोकं श्लाघां यथैते शोभना इति, पूजां च यथैतान् पूज्य इति । उभयत्र पापानुमत्यादिदोषसम्भवात् । तदिति श्लोकपूजादिकं द्विविधयापि परिज्ञया परिज्ञाय परिव्रजेद् यः स भिक्षुरिति ॥९॥ किञ्च
गिहिणो जे पव्वइएण दिट्टा अप्पव्वइएण व संथुया हविज्ज।
तेसिं इहलोइयप्फलट्ठा जो संथवं न करेइ स भिक्खू ॥१०॥ व्याख्या-गृहिणो ये प्रव्रजितेन दीक्षितेन दृष्टा उपलक्षणात् 'परिचिताश्च' । अप्रव्रजितेन वा गृहस्थावस्थेन संस्तुताः परिचिता भवेयुर्ये गृहिण इति योज्यम् । 'तेसिं' ति तैरुभयैरपि परिचितैहिभिरैहलोकिकफलार्थं वस्त्रादिलाभनिमित्तं यः संस्तवं परिचयं न करोति स भिक्षुरिति ॥१०॥
तथासयणासण-भोयणं विविहं खाइम-साइमं परेसिं । अदए पडिसेहिए नियंठे जे तत्थ न पउस्सई स भिक्खू ॥११॥
व्याख्या-शयनासन-भोजनं प्रतीतं विविधमनेकप्रकारं खादिम खजूरादि, स्वादिममेला-लवङ्गादि उभयत्र द्वन्द्वः । 'परेसिं' ति परेभ्यो गृहस्थादिभ्यः । 'अदए' त्ति अददभ्यः प्रतिषिद्धः क्वचित् कारणेन याचमानो निवारितः सन् निर्ग्रन्थो मुक्तद्रव्यभावग्रन्थो यस्तत्रादातरि न प्रद्वेषं याति स भिक्षुरिति ॥११॥
तथाजं किंचि आहार-पाणं विविहं खाइम-साइमं परेसिं लद्धं । जो तं तिविहेण नाणुकंपे मण-वय-कायसुसंवुडे स भिक्खू ॥१२॥
व्याख्या यत्किञ्चिदल्पमप्याहार-पानं भक्त-पानीयं विविधं खादिम-स्वादिमं च परेभ्यो गृहस्थेभ्यो 'लद्ध'त्ति लब्ध्वा प्राप्य यः । 'तं' ति सुब्ब्यत्ययात् तेनाहारादिना त्रिविधेन मनो-वाक्-कायलक्षणेन नानुकम्पते बाल-ग्लानादीन् नोपकुरुते 'न स
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org