________________
पञ्चदशं सभिक्ष्वध्ययनम्
४४९ भिक्षुरिति शेषः' यस्तु मनो-वाक्-कायैः सुसंवृतो निरुद्धाहाराद्यभिलाषः सन् बालादीननुकम्पते स भिक्षुरिति ॥१२॥
किञ्चआयामगं चेव जवोदणं च सीयं सोवीरं च जवोदगं च ।। नो हीलए पिंडं नीरसं तु अंत-पंतकुलाइं परिव्वए स भिक्खू ॥१३॥
व्याख्या-आयामकमवस्रावणम् । 'चः समुच्चये, एवेति पूरणे' यवोदनं यवभक्तं शीतमन्त-प्रान्तोपलक्षणमिदम् । सौवीरमारनालं यवोदकं च यवप्रक्षालनजलं तच्च नो हीलयेद् धिगिदं किमिदमनेनानिष्टेनेति न निन्देत् । पिण्डमायामकादि । एवं नीरसमपि गतस्वादमपि । 'तुरप्यर्थे' अतोऽन्त-प्रान्तकुलानि तुच्छगृहाणि दरिद्रकुलानि वा यः परिव्रजेत् स भिक्षुरिति ॥१३।।
अन्यच्चसद्दा विविहा भवंति लोए दिव्वा माणुस्सया तहा तेरिच्छा । भीमा भयभेरवा उराला जे सुच्चा न विहिज्जई स भिक्खू ॥१४॥
व्याख्या-शब्दा विविधा विमर्श-प्रद्वेषादिना क्रियमाणा बहुभेदा भवन्ति । लोके दिव्या देवसम्बन्धिना मानुष्यास्तथा तैरश्चा भीमा रौद्रा भयभैरवा अत्यन्तभयोत्पादका उदारा महान्तो यः श्रुत्वा प्रक्रमात् तादृशान् शब्दान् न व्यथते धर्मध्यानतो न चलति स भिक्षुरिति ॥१४॥
सम्यक्त्वस्थैर्यमाहवायं विविहं समिच्च लोए सहिए खेयाणुगए य कोवियप्पा । पन्ने अभिभूय सव्वदंसी उवसंते अविहेडए स भिक्खू ॥१५॥ व्याख्या-वादं विविधमनेकप्रकारं धर्मविषयम् । यथा
"मुण्डस्य भवति धर्मस्तथा जटाभिः सवाससां धर्मः ।
___गृहवासेऽपि च धर्मो वनेऽपि वसतां भवति धर्मः" ॥१॥ इत्यादि स्वस्वदर्शनाभिप्रायरूपं समेत्य ज्ञात्वा लोके सहितः साधुभिः स्वहितो वा खेदयति कर्मानेनेति खेदः संयमस्तेनानुगतो युक्तश्च कोविदो लब्धशास्त्रपरमार्थ आत्माऽस्येति कोविदात्मा प्राज्ञो धीमान् । अभिभूय पराजित्य 'परीषहादीनिति गम्यम्' । सर्वदर्शी सर्वसामान्यावबोधात्मकः उपशान्तः कषायोपशमेन अविहेटको न कस्यचिद् विबाधको यः स भिक्षुरिति ॥१५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org