SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ४४६ उत्तरज्झयणाणि-१ यन्त्रश्चायम् देव आसु. देव मनु. | राक्ष. | मनु. देव | आसु.| देव तथा 'सरंति स्वरस्वरूपाभिधानम् । यथा "सज्जं रवइ मऊरो कुक्कुडो रिसहं सरं । हंसो रवइ गंधारं मज्झिमं तु गवेलए ॥१॥ इत्यादि । सज्जेण लहइ वित्तिं कयं च न विणस्सई । गावो पुत्ता य मित्ता य नारीणं होइ वल्लहो ॥२॥ रिसहेण उ ईसरियं सेणावच्चं धणाणि य" । इत्यादि । तथा भौमं भूकम्पादिलक्षणम् । यथा-- "शब्देन महता भूमिर्यदा रसति कम्पते । सेनापतिरमात्यश्च राज-राष्ट्रं च पीड्यते" ॥१॥ इत्यादि । आन्तरिक्षमाकाशोद्भवगन्धर्वनगरादिरूपम् । यथा "कपिलं सस्यघाताय माञ्जिष्ठं हरणं गवाम् । अव्यक्तवर्णं कुरुते बलक्षोभं न संशयः ॥१॥ गन्धर्वनगरं स्निग्धं सप्राकारं सतोरणम् । सौम्यां दिशं समाश्रित्य राज्ञस्तद्विजयङ्करम्" ॥२॥ इत्यादि । तथा स्वप्नं स्वप्नगतं शुभाशुभकथनम् । यथा "गाने रोदनं ब्रूयान्नर्तने वध-बन्धनम् । हसने शोचनं ज्ञेयं पठने कलहं तथा" ॥१॥ इत्यादि । १. षड्ज रौति मयूरः कुर्कुट ऋषभं स्वरम् । हंसो रौति गान्धारं मध्यमं तु गवेलकः ॥१॥ षड्जेन लभते वित्तं कृतं च न विनश्यति । गावः पुत्राश्च मित्राणि च नारीणां भवति वल्लभः ॥२॥ ऋषभेण त्वैश्वर्यं सेनापत्यं धनानि च Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy