________________
पञ्चदशं सभिक्ष्वध्ययनम्
४४५ व्याख्या-नो नैव सत्कृतं सत्कारमभ्युत्थानानुगमनादिरूपमिच्छत्यभिलषति । न पूजा वस्त्रादिभिः, नापि च वन्दनकं द्वादशावर्तादि । कुतः ? प्रशंसां निजगुणोत्कीर्तनरूपां नैवेच्छतीत्यभिप्रायः । स एवंविधः संयतः सुव्रतस्तपस्वी विकृष्टतपाः सहितः सम्यग्ज्ञानक्रियाभ्याम् । आत्मानं कर्मविगमाच्छुद्धं गवेषयतीत्यात्मगवेषको यः स भिक्षुरिति ।।५।।
तथा
जेण पुण जहाइ जीवियं मोहं वा कसिणं नियच्छई।
नर-नारिं पजहे सया तवस्सी न य कोऊहलं उवेइ स भिक्खू ॥६॥
व्याख्या-येन हेतुना पुनर्जहाति त्यजति जीवितं संयमजीवितं मोहं वा कषायनोकषायरूपं मोहनीयं कृत्स्नं समस्तं नियच्छति बध्नाति । तदेवंविधं नरश्च नारी च नरनारि प्रजह्यात् त्यजेद् यः सदा तपस्वी । न च कुतूहलं स्त्र्यादिविषयमभुक्तभोगतायां कौतुकमुपलक्षणाद्, 'भुक्तभोगतायां स्मृति च' उपैति गच्छति स भिक्षुरिति ॥६॥
सिंहविहारतया भिक्षुत्वमुक्त्वा पिण्डविशुद्ध्या तदाहछिन्नं सरं भोममंतलिक्खं सुविणलक्खणदंडं वत्थुविज्जं ।
अंगवियारं सरस्स विजयं जो विज्जाहिं न जीवई स भिक्खू ॥७॥
व्याख्या-छेदनं छिन्नं वस्त्रादीनां तद्विषयशुभाशुभसूचिका विद्या च्छिन्नमित्युक्तैवं सर्वत्र । छिन्नादीनि यथा
"अंजण-खंजण-कद्दमलित्ते मूसगभक्खिय अग्गिविदड्डे । तुन्निय-कुट्टिय-पज्जवलीढे होइ विवागु सुहो असुहो वा ॥१॥ नवभागीकयवत्थे चउकूणंसा य मुहफला दिव्वा । पुव्वावर दो भागा आसुरिया आमयकरा य ॥२॥ दो दाहिणुत्तरंसा मज्झिमफलदायगा य माणुस्सा । वत्थस्स मज्झ रक्खसभागो मरणफलो होइ" ॥३॥
१. अञ्जन-खञ्जन-कर्दमलिप्ते मूषकभक्षितेऽग्निविदग्धे ।
तूर्णित-कुट्टित-पर्यवलीढे भवति विपाकः शुभोऽशुभो वा ॥१॥ नवभागीकृतवस्त्रे चतुष्कोणांशाश्च मुखफला दिव्याः । पूर्वपरौ द्वौ भागौ आसुरावामयकरौ च ॥२॥ द्वौ दक्षिणोत्तरांशौ मध्यमफलदायकौ च मानुष्यौ । वस्त्रस्य मध्ये राक्षसभागो मरणात्मको भवति ॥३।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org