________________
४४४
उत्तरज्झयणाणि-१ तदा कूरघटसाधुरपसार्य ततः कफम् । मन्यमानः सिताक्षेपमिव तं भुक्तवान् स तत् ॥७॥ निःशूकः शान्तचेताः स नाक्रोष्टरि रुषं दधौ ।।
क्रोधः सुगतिहन्ता हि भावनां भावयन्निति ||८|| यत:
"आक्रुष्टेन मतिमता तत्त्वार्थालोचने मतिः कार्या । यदि सत्यं कः कोपः स्यादनृतं किं नु कोपेन ?" ॥१॥ तथा चाक्रोश्यमानोऽपि क्षमावानहमित्यसौ । न माद्यत्यपि मानो हि प्रेत्य तद्वैपरीत्यकृत् ॥९॥ शुशुचे च हृदा सोऽथ मन्निमित्तं तपस्वययम् । क्रुधो व्रतातिचाराच्च दुःखभाग् भवितेति हा ! ॥१०॥ युग्मम् स कूरगड्डकः साधुर्मुनेस्तस्य तपस्विनः । प्रशंसंस्तपस्तीव्र निन्दन् स्वं धान्यकीटकम् ॥११।। समतारससम्पूर्णो घातिकर्मचतुष्टयम् । क्षपयित्वा परं प्राप केवलज्ञानमुज्ज्वलम् ।।१२।। विहारेण पुनानः क्ष्मां सम्बोध्य भविकान् जनान् ।
कृत्स्नकर्मक्षयं कृत्वा परमानन्दमाप सः ॥१३।। इत्याक्रोशे हर्ष-रोषत्यागे कूरगड्डककथा ॥३॥ किञ्चपंतं सयणासणं भइत्ता सीउण्हं विविहं च दंस-मसगं ।
अव्वग्गमणे असंपहिढे जे कसिणं अहियासए स भिक्खू ॥४॥ व्याख्या- प्रान्तमसारं शयनासनमुपलक्षणाद् 'भोजनाच्छादनादि' भुक्त्वा सेवित्वा शीतं चोष्णं च शीतोष्णं सेवित्वा विविधं च नानाप्रकारं दंश-मशकं 'प्राप्येति शेषः' । अव्यग्रमना असम्प्रहृष्टः प्रान्तशयनासनादिसेव्यहो ! अहमिति न प्रहर्षवान् इत्यादि प्राग्वत् ॥४॥
अपरं चनो सक्कियमिच्छई न पूयं नो वि य वंदणगं कुओ पसंसं ? से संजए सुव्वए तवस्सी सहिए आयगवेसए स भिक्खू ॥५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org