________________
पञ्चदशं सभिक्ष्वध्ययनम्
४४३ व्याख्या-रागोऽभिष्वङ्ग उपरतो निवृत्तो यस्मिंस्तद्रागोपरतं यथा स्यादेवं चरेद् विहरेत् क्तान्तस्य परनिपातः प्राग्वत् । लाढः सदनुष्ठानतया प्रधानः । विरतोऽसंयमान्निवृत्तः । वेद्यते तत्त्वमनेनेति वेदः सिद्धान्तस्तस्य वेदनं वित् तयाऽऽत्मा रक्षितो दुर्गतेस्त्रातोऽनेनेति वेदविदात्मरक्षितः । प्राज्ञो हेयोपादेयबुद्धिमान् अभिभूय पराजित्य 'परीषहोपसर्गादीनिति गम्यम्' । सर्ववस्तु समतया पश्यतीत्येवंशीलः सर्वदर्शी यः कस्मिंश्चित् सचित्तादिवस्तुनि न मूच्छितो गृद्धः स भिक्षुरिति ॥२॥
अन्यच्चअक्कोस-वहं विदित्तु धीरे मुणी चरे लाढे निच्चमायगुत्ते ।
अव्वग्गमणे असंपहिढे जे कसिणं अहियासए स भिक्खू ॥३॥
व्याख्या-आक्रोशोऽसभ्यालापो वधो घातोऽनयोर्द्वन्द्वे आक्रोश-वधं तद् विदित्वा स्वकर्मफलमेतदिति ज्ञात्वा । धीरोऽक्षोभ्यः सम्यक् सोढेत्यर्थः । मुनिश्चरेत् पर्यटेद् 'अप्रतिबद्धविहारेणेति गम्यम्' । लाढः प्रधानः नित्यं गुप्तो रक्षितोऽसंयमस्थानेभ्य आत्मा येन स तथा । अव्यग्रमना अनाकुलचित्तोऽसम्प्रहष्ट आक्रोशादिषु न प्रहर्षवान् यदहं क्षमावानिति । यः कृत्स्नमुत्कृष्टादिभेदतः सर्वमाक्रोशवधमध्यास्ते सहते 'समतयेति गम्यते' । स भिक्षुरिति । अत्र दृष्टान्त:
यत्येकः पुरि चम्पायां गच्छे स्वच्छाशयः क्वचित् । चतुरश्चतुरः साधून् क्षपकान् वरिवस्यति ॥१॥ वैयावृत्योद्यतः साधुः क्रियाकरणकर्मठः ।। परं क्षुधालुरत्यर्थं स चास्तेऽश्नन् मुहुर्मुहुः ॥२॥ तपस्विनान्यदेकेन खेलोत्सर्गाय याचितः ।। रक्षापात्रं स विस्मार्य तद् भोक्तुमुपचक्रमे ॥३॥ ततो रुष्टस्तपस्वी स आचुक्रोश भृशं तकम् । अनेकैः परुषैर्वाक्यैस्तपोऽजीर्णं हि रुट यतः ॥४॥ परकार्यानपेक्षत्वादरे ! त्वं स्वोदरम्भरि । कूरगड्डुक इत्यस्याचख्ये सोऽनियतादनात् ।।५।। युग्मम् क्रोधाध्मातेन तेनाथ तस्य भोजनभाजने । भुञ्जानस्यैव चाहारं मुखात् खेलो निचिक्षिपे ॥६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org