SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४३० उत्तरज्झयणाणि-१ अथ धनादिभिस्तौ लोभयितुं पुरोहितः प्राहधणं पभूयं सह इत्थियाहिं सयणा तहा कामगुणा पगामा । तवं कए तप्पइ जस्स लोगो तं सव्व साहीणमिहेव तुब्भं ॥१६॥ व्याख्या-धनं द्रव्यं प्रभूतं प्रचुरं सह स्त्रीभिः स्वजनाः पितृव्यादयस्तथा कामगुणाः शब्दादयः प्रकामा अतिशायिनः । तपः कष्टानुष्ठानं कृते निमित्तं यस्य धनादेस्तप्यतेऽनुतिष्ठति लोकः तत् सर्वं स्वाधीनमायत्तमिहैवास्मिन्नेव गृहे 'तुब्भं'ति सूत्रत्वाद् युवयोरिति ।।१६।।। तावाहतु:धणेण किं धम्मधुराहिगारे सयणेण वा कामगुणेहिं चेव ? । समणा भविस्सामु गुणोहधारी बहिविहारा अभिगम्म भिक्खं ॥१७॥ व्याख्या-धनेन किं धर्मधुराऽधिकारे स्वजनेन वा कामगुणैश्च ? ततः श्रमणौ तपस्विनौ भविष्यावो गुणौघं सम्यग्दर्शनादिगुणसमूहं धारयत इत्येवंशीलौ गुणौघधारिणौ बहिर्गामादिभ्यो बहिर्वतित्वाद् द्रव्यतो भावतश्च क्वचिदप्रतिबद्धत्वाद् विहारो ययोस्तौ बहिर्विहारौ । अभिगम्याश्रित्य भिक्षां शुद्धाहारयन्ताविति भावः ॥१७॥ धर्ममूलस्यात्मनोऽस्तित्वाभावं भृगुराहजहा य अग्गी अरणी असंतो खीरे घयं तिल्लमहा तिलेसु । एमेव जाया सरीरंमि सत्ता संमुच्छई नासइ नावचिढ़े ॥१८॥ व्याख्या-'चोऽवधारणे' यथैवाग्निररणितोऽग्निमन्थनकाष्ठादसन्नविद्यमान एवं संमूर्च्छति । तथा क्षीरे घृतं, तैलमथ तिलेषु । एवमेव हे जातौ पुत्रौ ! शरीरे सत्त्वाः प्राणिनः संमूर्च्छन्ति पूर्वमसन्त एवोत्पद्यन्ते शरीराकारपरिमितभूतसमूहादौ यतस्तथा चाहुस्ते-पृथिव्यापस्तेजो वायुरिति तत्त्वानि, एतेभ्यश्चैतन्यं मद्याङ्गेभ्यो मदशक्तिवत् । 'नासइ'त्ति नश्यन्त्यभ्रपटलवत् प्रलयं यान्ति । 'नावचिद्वेत्ति न पुनरवतिष्ठन्ते शरीरनाशे तन्नाशादिति ॥१८॥ कुमारावाहतु:नो इंदियग्गिज्झो अमुत्तभावा अमुत्तभावा वि य होइ निच्चो । अज्झत्थहेउं निययस्सबंधो संसारहेउं च वयंति बंधं ॥१९॥ व्याख्या 'नो निषेधे' इन्द्रियैः श्रोत्रादिभिर्ग्राह्यः संवेद्य इन्द्रियग्राह्यः प्रक्रमात् Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy