________________
उत्तरज्झयणाणि - १
कावारण्यकव्रतधारिणौ ‘होइ'त्ति भव युवां मुनी तपस्विनौ प्रशस्तौ श्लाध्याविति ||९||
ततस्तौ यदकार्यं तदाह
४२८
सोअग्गणा आयगुणिधणेणं मोहानिलपज्जलणाहिएणं । संतत्तभावं परितप्पमाणं लालप्पमाणं बहुहा बहुं च ॥१०॥ पुरोहियं तं कमसोऽणुणंतं निमंतयंतं च सुए धणेणं । जहक्कमं कामगुणेहिं चेव कुमारगा ते पसमिक्ख वक्कं ॥ ११ ॥
अनयोर्व्याख्या - इष्टवियोगजनितं मनोदुःखं शोकः स चाग्निरिव शोकाग्निस्तेनात्मनो गुणा अनादिकालसहचरितत्वेन रागादयस्ते इन्धनमिवेन्धनमुद्दीपकतया यस्य स तथा तेन । मोहोऽज्ञानं सोऽनिल इव वायुरिव मोहानिलस्तस्मादधिकं नगरदाहादिभ्योऽप्यर्गलं प्रज्वलनं प्रकर्षेण दीपनमस्येत्यधिकप्रज्वलनं प्राकृतत्वादधिकशब्दस्य परनिपातः सन्तप्तोऽनिर्वृतत्वेन भावोऽन्तःकरणमस्येति सन्तप्तभावस्तमत एव परितप्यमानं दह्यमानं शोकाच्छरीरे दाहस्याप्युत्पत्तेः लालप्यमानमतिशयेन दीनवचांसि लपन्तं बहुधाऽनेकप्रकारं बहु च प्रभूतं च यथा स्यादिति ॥ एवं पुरोहितं तं क्रमेणानुनयन्तं स्वाभिप्रायेण प्रज्ञापयन्तं निमन्त्रयन्तं च सुतौ धनेन यथाक्रमं कामगुणैश्च शब्दादिभिः कुमारकौ तौ प्रसमीक्ष्य प्रकर्षेणाज्ञानाच्छादितमतिमालोच्य वाक्यं वक्ष्यमाणमुक्तवन्ताविति गम्यते' इति गाथा - द्वयार्थः ॥१०-११॥ तदेवाह
वेया अहीया न हवंति ताणं भुत्ता दिया निंति तमंतमे णं । जाया य पुत्ता न हवंति ताणं को नाम ते अणुमन्निज्ज एयं ? ॥१२॥ व्याख्या-वेदा ऋग्वेदादयोऽधीताः पठिता न भवन्ति त्राणं शरणम् । तदध्ययनमात्रतो दुर्गतिपातरक्षाऽसिद्धेः । उक्तं हि
"शिल्पमध्ययनं नाम वृत्तं ब्राह्मणलक्षणम् ।
वृत्तस्थं ब्राह्मणं प्राहुर्नेतरान् वेदजीवकान् " ॥१॥
'भुत्त'त्ति अन्तर्भूतेनार्थ[तणिगर्थ० ] त्वाद् भोजिता द्विजा ब्राह्मणा नयन्ति प्रापयन्ति तमसोऽपि यत् तमस्तस्मिन्नतिरौद्र रौरवादिनरके 'णमलङ्कारे' ते हि भोजिताः कुमार्गप्ररूपणपशुवधाद्यसद्वयापारे प्रवर्तन्तेऽतस्तद्भोजनस्य नरकहेतुत्वमिति । तथा जाताश्च पुत्रा न भवन्ति त्राणं 'नरकादिकुगतौ पततामिति गम्यम्' । यदुक्तं तैरेव -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org