________________
चतुर्दशमिषुकारीयाध्ययनम्
४२७ व्याख्या-तौ पुरोहितपुत्रौ काम-भोगेषु 'असज्जमाण'त्ति असजन्तौ सङ्गमकुर्वन्तौ मानुष्यकेषु मनुष्यसम्बन्धिषु ये चापि दिव्या देवसम्बन्धिनः काम-भोगास्तेषु च मोक्षाभिकाङ्क्षिणावभिजातश्रद्धावुत्पन्नतत्त्वरुची 'तातं' पितरमुपागम्येदं वक्ष्यमाणं 'उदाहु'त्ति उदाहरताम् ॥६॥
यदुक्तवन्तौ तदाहअसासयं दट्ट इमं विहारं बहुअंतरायं न य दीहमाउं । . तम्हा गिहंसि न रइं लभामो आमंतयामो चरिस्सामु मोणं ॥७॥
व्याख्या-अशाश्वतमनित्यं दृष्टेमं प्रत्यक्षं विहारं मनुष्यत्वेनावस्थानम् । यतो बह्वन्तरायं बहुरोगादिविघ्नमत एव न च दीर्घमायुः सम्प्रति पल्योपमायुष्कताया अप्यभावात् । तस्माद् गृहे न रतिं लभावहे प्राप्नुवोऽतश्चामन्त्रयावहे पृच्छाव आवां यथा चरिष्यावो मौनं मुनिभावं संयममिति ॥७॥
एवं ताभ्यामुक्ते भृगुर्यत्कृतवांस्तदाहअह तायगो तत्थ मुणीण तेसिं तवस्स वाघायकर वयासी । इमं वयं वेयविऊ वयंति जहा न होही असुयाण लोगो ॥८॥
व्याख्या-अथानन्तरं तायते सन्तानं पालयति सर्वापद्भ्य इति तात: स एव तातकस्तत्रावसरे मुन्योर्भावतः प्रतिपन्नमुनिभावयोस्तयोः पुत्रयोस्तपसः 'उपलक्षणादशेषधर्मानुष्ठानस्य च' व्याघातकरं बाधाकरं 'वचनमिति शेषः' । 'क्यासी' त्ति अवादीद् । यदवादीत् तदाह-इमां वाचं वेदविदो वदन्ति 'यथा न भवत्यसुतानामपुत्राणां लोकः परलोकस्तं विना पिण्डप्रदानाद्यभावे गत्याद्यभावात्' । तथा चाहुः
"अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च।।
गृहधर्ममनुष्ठाय तेन स्वर्गं गमिष्यसि" ॥१॥ ॥८॥ यत एवं तस्मात्अहिज्ज वेए परिविस्स विप्पे पुत्ते परिठप्प गिहंसि जाया । भुच्चा ण भोगे सह इत्थियाहिं आरन्नया होह मुणी पसत्था ॥९॥
व्याख्या-अधीत्य पठित्वा वेदान्, परिवेष्य भोजयित्वा विप्रान् । तथा पुत्रान् प्रतिष्ठाप्य कलत्रग्रहणादिना गृहस्थधर्मे निवेश्य तान् कीदृशः ? गृहे जातान् न तु गृहीतमुखमान्यादीन् । तथा भुक्त्वा ‘णेत्यलङ्कारे' भोगान् शब्दादीन् सह स्त्रीभिस्तत आरण्य
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org