SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ११ प्रथमं विनयाध्ययनम् एतौ तु मा विनश्येतामिति नादात् पुरः पदम् । स ततस्तावकुशेनाहत्याहतुरदो द्विपम् ॥४०॥ रे दुरात्मन् ! विधत्से त्वं सम्प्रति प्रतिकूलताम् । तदवश्यं हि जानीवो रिपुभिर्विप्रतारितः ॥४१॥ इदं कटुवचः श्रुत्वा स करी करटाद् द्रुतम् । करेणोत्तार्य तौ स्वं च खातिकाऽन्तरपातयत् ॥४२॥ तत्राग्निज्वलितो रौद्रध्यानः सेचनको द्विपः । मृत्वा रत्नप्रभापृथ्व्यां नारकोऽभूत् सुदुःखितः ॥४३॥ सप्तभिः कुलकम् ततो हल्ल-विहल्लौ तमिभं वीक्ष्य परासुकम् । विलक्ष्यौ दध्यतुरिति धन्योऽयं पशुरप्यहो ! ॥४४।। आवां हि येन रक्षित्वा स्वात्मा वह्नौ प्रवेशितः । आवां पुनरधन्यौ यौ सदा दुष्कृततत्परौ ॥४५।। अनेकजीवसङ्घातसञ्जातादंहसः कथम् ? । श्वभ्रहेतोश्छुटिष्याव इति संविग्नमानसौ ॥४६॥ यावज्जातौ तु तौ तावत् ततः शासनदेवता । अकस्मादेत्य तावुत्पाट्यानैषीद् वीरसन्निधिम् ॥४७॥ ततस्तत्र व्रतं लात्वा संसाराम्बुधितारकम् । सुदुस्तपं तपस्तप्त्वा जग्मतुः सुगतिं च तौ ॥४८॥ पञ्चभिः कुलकम् विषण्णः कौणिकः माभृद् वैशाली लातुमक्षमः । इमां सन्धां व्यधादेनां खरोपेतहलैर्यदि ॥४९॥ न खानयामि ताशु वह्निकुण्डे विशाम्यहम् । उपायैर्बहुभिर्यावत् पुरी भतुं शशाक न ॥५०॥ तावद् गुरुप्रत्यनीकेऽतिरुष्टा कूलवालके । वैतालीयमिदं पद्यमाकाशस्थाऽपठत् सुरी ॥५१।। त्रिभिर्विशेषकम् "समणे जइ कूलवालुए मागहियं गणियं गमिस्सदि । लाया य असोगचंदए वेसालिं नगलि गहिस्सदि" ॥१॥ १. श्रमणो यदि कूलवालुको मागधिकां गणिकां गमिष्यति । राजा चाशोकचन्द्रो वैशाली नगरी ग्रहीष्यति । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy