________________
उत्तरज्झयणाणि-१ दिव्यबाणानुभावेन दुर्जेयं चेटकं ततः । देवमाराधयज्जेतुं चम्पेशोऽष्टमभक्तभाक् ॥२६।। तद्भक्ति-तपसाऽऽकृष्टौ सौधर्म-चमरेन्द्रकौ । आगत्य भणतः स्मेह किं कार्यं वद कौणिक ! ॥२७॥ स ऊचिवान् सुरेन्द्रौ ! भो मार्यतां चेटको नृपः । तावूचतुर्न तं हन्वो यतः साधर्मिको ह्यसौ ॥२८॥ परं शरीररक्षां ते करिष्याव: सुनिश्चितम् । इत्युक्त्वा प्रगताविन्द्रौ कौणिकोऽभूद् रणोद्यतः ।।२९।। चेटकोऽपि स्वयं यावद् दौहित्रहननोत्सुकः । शरं धनुषि सन्धाय टङ्कारमकरोद् भृशम् ॥३०॥ तावच्छककृते वज्रसन्नाहे पृष्ठतोऽग्रतः । कौणिकस्य तदास्फाल्यापतद् चेटकसायकः ॥३१॥ द्वितीयेऽप्यह्नि मुमुचे चेटकेन शरस्तथा । मुधाऽभवत् ततोऽचिन्ति चित्ते चेटकभूभुजा ॥३२॥ च्युतेषुरभवं यच्च तन्मे भाग्यविपर्ययः । एतस्य पुण्यपूरोऽभूद् जागरूक इति प्रधीः ॥३३।। ततः प्रविश्य वैशालीमपिधाय प्रतोलिकाः । तस्थौ चेटकभूपालः स्वराजव्यूहमध्यगः ॥३४॥ रात्रौ हल्ल-विहल्लौ तौ बहिर्गत्वाऽथ कौणिकम् । गजसेचनकारूढावुपदुद्रुवतुर्बलम् ॥३५॥ कौणिकः स्वभाटनाख्यद् भोः ! कोऽप्यस्त्युत्कटो भट: ? । योऽत्र सेचनकं धर्तुं प्रहर्तुं वा क्षमो भवेत् ।।३६।। ततस्ते ज्वलदङ्गारां तृणच्छन्नां च खातिकाम् । चक्रुहल्ल-विहल्लौ त्वारुह्य सेचनकं गजम् ।।३७|| तत्स्वरूपमजानानौ रजन्यामुपखातिकम् । प्राप्तौ यावदुपद्रोतुं शत्रूनद्भुतविक्रमौ ॥३८॥ तावत् सेचनको हस्ती विभङ्गज्ञानयोगतः । सर्वतो ज्वलदङ्गारां परिखां वीक्ष्य दध्यिवान् ॥३९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org