________________
४०४
उत्तरज्झयणाणि-१ इतश्च ब्रह्मराजस्य द्वितीयं हृदयं सुधीः । तवृत्तं ज्ञातवान् सर्वं धनुर्मन्त्री यथास्थितम् ॥७७ स चित्ते चिन्तयामास यो ह्येवमनुतिष्ठति । अकार्यं स किमु ब्रह्मदत्तस्योदयमिच्छति ? ॥७८।। अथैकान्ते वरधनोः सुतस्य तदवेदयत् । सोऽपि सप्रत्ययं प्रीत्या ब्रह्मदत्तमजिज्ञपत् ॥७९॥ दौःशील्यभाजनं नार्यः किं पुनर्या निरङ्कुशाः ? ।
स इत्यालम्ब्य धीरत्वं प्रस्तावं प्रत्यपालयत् ।।८०॥ तथापि
दुश्चरितमसहमानो मातुः कुमरस्तु दर्शयित्वाऽलम् । काकान्यभृतासङ्गं निहन्ति तन्मिथुनकं रोषात् ॥८१।। योऽन्यश्चैवं कर्ता तस्यैवं निग्रहं विधाताऽहम् । तस्य ज्ञापनहेतोरित्येवं वावदीति पुनः ॥८२।। पुनरन्यदिने कुमरो भद्रकरिण्या समं गजम् । लग्नं लात्वाऽन्तःपुरमध्ये तथैव निघ्नन् समाख्याति ॥८३॥ ततो दीर्घेण तं मत्वा भणिता चुलनीप्रिया । काकोऽहं कोकिला त्वं च ज्ञापयत्येष राजसूः ॥८४॥ तयोक्तमेष बालत्वाद् यद्वा तद्वा लपत्यलम् । तेनोक्तमेवमेवेति मदुक्तं नान्यथा भवेत् ॥८५॥ पुनः स प्राह वध्योऽयमावयोरतिविघ्नकृत् । स्वाधीने मयि कल्याणि ! भविष्यन्त्यपरे सुताः ॥८६॥ ततो रतिस्नेहवशादचिन्त्यं चेतसाऽपि हि ।
तया रागातया दुष्टमकार्यं तदुरीकृतम् ।।८७॥ उक्तञ्च
"मारइ पियभत्तारं हणइ सुयं तह पणासए अत्थं । नियगेहं पि पलीवइ नारी रागाउरा पावा" ॥१॥
१. मारयति प्रियभर्तारं हन्ति सुतं तथा प्रणाशयत्यर्थम् ।
निजगेहमपि प्रदीपयति नारी रागातुरा पापा ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org