SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ त्रयोदशं चित्र-संभूतीयमध्ययनम् एतत्तपः प्रभावेन लभेऽहं प्रेत्य चक्रिताम् । लीलाविलासिललनाभोगं चोत्तमजातिताम् ॥६३॥ इति कृत्वा निदानं स सम्भूतो व्रतपालनात् । विमाने पद्मगुल्माख्ये सौधर्मे त्रिदशोऽजनि ||६४ ॥ चित्रजीवोऽपि तत्रैव देवोऽभूद् दिव्यसौख्यभुक् । ततः पुरिमतालेऽभूदिभ्यपुत्रो महाधनी ॥ ६५ ॥ दिवश्च्युतोऽथ सम्भूतजीवः काम्पील्यपत्तने । ब्रह्मराजमहाराज्ञीचुलनीनन्दनोऽभवत् ॥६६॥ चतुर्दशमहास्वप्नज्ञातचक्रेशसम्पदः । नाम व्यधात् पिता तस्य ब्रह्मदत्त इति स्फुटम् ॥६७॥ चत्वारः सुहृदोऽभीष्टा ब्रह्मराजस्य भूभृतः । कटकः काशिदेशेशः करेणुर्गजपूः पतिः ॥६८॥ कोशलाधिपतिर्दीर्घश्चम्पेशः पुष्पचूलकः । प्राय एकत्र तिष्ठन्ति पञ्चैते स्नेहला मिथः ॥ ६९ ॥ युग्मम् अन्यदा ब्रह्मराट् व्याधिबाधितो द्वादशाब्दकम् । उत्सङ्गे कटकादीनां ब्रह्मदत्तं मुमोच सः ॥७०॥ तानूचे च वयस्या भोः ! भवद्भिः प्रतिवत्सरम् । बाल्ये लालयितव्योऽसौ स्थित्वा चैकैकशः क्रमात् ॥७१॥ इत्यादि राज्यचिन्तां स कृत्वा कालगतो नृपः । मित्रैश्च प्रेतकृत्यानि विधाय कटकादिभिः ॥७२|| सर्वैरालोचितं यावदेष स्याद् राज्यधूः क्षमः । तावत् स्थातव्यमेकेन राज्यरक्षाकृतेऽत्र भोः ! ॥७३॥ ते तत्र दीर्घराजं तु मुक्त्वा स्वं राज्यमैयरुः । दीर्घः सर्वं सकोशादि तद्राज्यं हस्तसाद् व्यधात् ॥७४॥ मोहोदयादिन्द्रियाणां दुर्निवारतया तथा । निन्द्यत्वं ब्रह्मभूपस्य मित्रत्वं चावमन्य सः ॥७५॥ चुलुन्या सह भुञ्जानः सदा वैषयिकं सुखम् । निःशङ्कः स्वेच्छयाऽभुङ्क्त ब्रह्मराज्यं नृपाधमः ॥७६॥ For Private & Personal Use Only Jain Education International 2010_02 ४०३ www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy