SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ४०२ किञ्च भोगहेतुवपुर्मानुष्यकं तदखिलं किल । विस्त्रं चाशुचि बुद्धानां स्यात् कथं रागहेतु तत् ? ॥ ६१ ॥ यदागमः "सुक्कसोणियसंभूयं असुईरसविवड्ढियं । तय-रत्त-मंस-मेय-ट्ठि - मिज्ज-सुक्क - विणिम्मियं ॥ १ ॥ नवेगारससोएहिं गलंतमसुईरसं । अमेज्झकोत्थलो देहं छविमेत्तमणोहरं ॥ २ ॥ आढयं रुहिरस्सेत्थ वसाए अद्धआढयं । कुडव पित्त - संभाणं सुक्कस्स य तदद्धयं ॥३॥ सिरासयाई सत्तेव नव हारुसया भवे । न सरीरंमि एयंमि सुइत्तं किंपि विज्जए ॥४॥ मण्णाणसणाईणि वरं वत्थं विलेवणं । विणस्सए सरीरेण वरं सयणमासणं ॥ ५ ॥ एयारिसे सरीरंमि सव्वरोगाण आलए । सुणिच्छियागमो होउं मा मुज्झ मुणिपुंगव !" ॥६॥ एवमाद्यनुशिष्टोऽपि स तु न प्रत्यबूबुधत् । मोहोत्कटतया घोरं निदानं चक्रिवानिति ॥ ६२ ॥ १. शुक्र - शोणितसम्भूतमशुचिरसविवधितम् । त्वक्-रक्त-मास-मेदास्थि - मज्जा - शुक्र - विनिर्मितम् ॥१॥ नवैकादशस्त्रोतोभिर्गलदशुचिरसम् । अमेध्यकुशूलो देहश्छविमात्रमनोहरः ॥२॥ आढकं रुधिरस्यात्र वसाया अर्धाढकम् । कुतुपः पित्त - श्लेष्म्णोः शुक्रस्य च तदर्धकम् ॥३॥ सिराशतानि सप्तैव नव स्नायुशतानि भवेयुः । न शरीरे एतस्मिन् शुचित्वं किमपि विद्यते ॥ ४ ॥ मनोज्ञान्यशनादीनि वरं वस्त्रं विलेपनम् । विनश्यति शरीरेण वरं शयनमासनम् ॥५॥ एतादृशे शरीरे सर्वरोगाणामालये । सुनिश्चितागमो भूत्वा मा मुह्य मुनिपुङ्गव ! ||६|| For Private & Personal Use Only उत्तरज्झयणाणि - १ Jain Education International 2010_02 www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy