________________
४०१
त्रयोदशं चित्र-संभूतीयमध्ययनम् यतः
"कोहो पीई पणासेइ कोहो दुग्गइवड्वणो । परियावकरो कोहो अप्पाणस्स य परस्स य" ॥१॥ एवं चोपशमवरैः सर्वज्ञोपज्ञवाग्जलैः स मुनिः । विध्यापितकोपाग्निः संवेगं चाससाद दमी" ॥५१॥ ततः पुराद् विनिर्गत्योद्यानमापतुराहतौ । संयतौ चित्र-सम्भूतौ वैराग्याद्भुतचेतसौ ॥५२॥ क्रुद्धेन चक्रिणा बद्ध्वा नमुचिः साधुसन्निधौ । नीत: कृपाऽऽर्द्रचेतोभ्यां तदा ताभ्यां स मोचितः ॥५३।। ततः क्रोधं हि धिगिति ध्यात्वा तौ शुद्धभावनौ । स्वीचक्राते त्वनशनं विधायाराधनां मुदा ॥५४॥ ततो भक्तिप्रहृष्टास्यश्चक्री सान्तःपुरोऽगमत् । तदुद्यानं तयोः पादाववन्दत महाऽऽदरात् ॥५५।। तदा स्त्रीरत्नमृदुलालकस्पर्शादभूद् यतिः । सम्भूतो भ्रष्टसध्यानस्तद्भोगस्पृहयालुकः ॥५६॥ यावन्निदानं सम्भूतो विधातुमुपचक्रमे । तावच्चाचिन्तयच्चित्रोऽहो ! मोहस्य विजृम्भितम् ॥५७।। इन्द्रियाणां च दौन्त्यिं विषयाणां दुरन्तता । अहो ! भोगपिपासाया दुर्जयत्वमतृप्तता ॥५८॥ तपोऽतिशययुक्तोऽपि ज्ञाताहद्वचनोऽपि यत् । अयं युवतिबालाग्रस्पर्शादित्यध्यवस्यति ॥५९॥ त्रिभिःकुलकम् ततश्चित्र उपाळस्त तं प्रबोधयितुं मुनिः । भो भोः ! उपरमैतस्मादशुभाध्यवसायतः ॥६०॥
यतः
"असाराः कामभोगा भोः ! भवभ्रमणहेतवः । आपातमधुराश्चान्ते ते किम्पाकफलोपमाः" ॥१॥
१. क्रोधः प्रीति प्रणाशयति क्रोधो दुर्गतिवर्धनः ।
परितापकरः क्रोधः आत्मनश्च परस्य च ॥१॥ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org