________________
४००
उत्तरज्झयणाणि-१ तौ व्यजिज्ञपतां साधो ! देहि स्वव्रतमावयोः । प्रसद्य मा विलम्बेथामिति साधुरथावदत् ॥३८॥ ततो वैराग्यमापन्नौ गुरोर्जगृहतुव॒तम् ।। विकृष्टतपसा लब्धतेजोलेश्यादिलब्धिकौ ॥३९॥ क्रमेण विहरन्तौ तौ हस्तिनागपुरं गतौ । उद्याने प्रासुकस्थाने स्थितौ सद्ध्यानतत्परौ ॥४०॥ प्रविष्टं पुरि भिक्षाऽर्थं मासक्षपणपारणे । नमुचिः सचिवोऽपश्यत् सम्भूतयतिमेकदा ॥४१|| मदीयं हि दुराचारमयं प्रकटयिष्यति । इति दुश्चिन्तया कोपाद् भृत्यैस्तं निरभर्स्यत् ॥४२॥ धिग् मुण्ड ! श्वपच ! त्वं भोः ! पुरान्तः किं प्रविक्षसि ? । एवं निष्ठुरवाग् दुष्टो ग्रावादिभिरघातयत् ॥४३॥ क्रोधाध्मातस्ततश्चासौ समस्तजनदाहिकाम् । तेजोलेश्यां दुःप्रसह्यां मां मोक्तुमुपचक्रमे ॥४४॥ तदा तन्मुखनिर्गच्छधूमधूने नभस्तले । सनत्कुमारचक्र्याह सम्भूतर्षे ! कृताञ्जलिः ॥४५॥ भोस्तपस्विन् ? क्षमस्वेहास्मादृशैर्मन्ददृष्टिभिः । अनार्यैरपराद्धं यत् तपस्तेजश्च संहर ॥४६।। अस्मज्जीवितदानेन प्रसीद न पुनस्तथा । करिष्यामः स सम्भूतो यावन्नैव प्रसीदति ॥४७।। तावत् तवृत्तमाकर्ण्य चित्रर्षि—मदर्शनात् । उपाशीशमदागत्य तदन्ते तं श्रुतोक्तिभिः ॥४८॥ "भोः सम्भूतयते ! कोपानलं स्रागुपशामय । महर्षयो भवन्त्येव प्रशमामृतपूरिताः ॥४९॥ अपराधिन्यपि क्रोधावकाशं न ददत्यहो!। सन्तो यतो दुरन्तोऽयं क्रोधोऽनर्थखनिः खलु ॥५०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org