________________
द्वादशं हरिकेशीयमध्ययनम्
३९३ व्याख्या-'किमिति क्षेपे' न युक्तमिदं यन्माहना ब्राह्मणा ज्योतिरग्नि समारभमाणाः प्रस्तावाद् यागं कुर्वन्त उदकेन शुद्धि निर्मलतां 'बहिय' त्ति बाह्यां विमार्गयथान्वेषयथ । किमित्येवमत आह-यद् यूयं मार्गयथ बाह्यहेतुकां विशुद्धि न तत् सुदृष्टं सुष्ठ प्रेक्षितं कुशलास्तत्त्वविचारनिपुणा वदन्ति प्रतिपादयन्तीति ॥३८।।
यथा चैतन्न सुदृष्टं स्यात्, तथा स्वत एवाहकुसं च जूवं तण-कट्ठमग्गि सायं च पायं उदगं फुसंता । पाणाइं भूयाई विहेडयंता भुज्जो वि मंदा पकरेह पावं ॥३९॥
व्याख्या-कुशं दर्भ यूपं प्रतीतं तृणं वीरणादि काष्ठं समिदादिकमग्नि 'सर्वत्र प्रतिगृह्णन्त इति शेषः' । सायं सन्ध्यायां प्रातः प्रभाते उदकं स्पृशन्तः आचमनादिषु । 'पाणाई' ति प्राणयोगात् प्राणिनो द्वीन्द्रियादीन् भूतांस्तरून् । यतः
"प्राणा द्वि-त्रि-चतुः प्रोक्ताः भूतास्तु तरवः स्मृताः ।
जीवाः पञ्चेन्द्रिया प्रोक्ताः शेषाः सत्त्वाः प्रकीर्तिताः" ॥१॥ उपलक्षणात् पृथिव्यादीन् 'विहेडयंत' त्ति विहेटयन्तो विनाशयन्तो भूयोऽपि न केवलं पूर्व किन्तु शुद्धिकालेऽपि जलानलादिजीवोपमर्दतो मन्दा जडाः प्रकुरुथ प्रकर्षेणोपचिनुथ यूयं पापमशुभं कर्म । अयं भावः-कर्ममलापचयस्वरूपा तात्त्विकी शुद्धिर्याग-स्नाने च भूतोपमर्दहेतुत्वेन कर्ममलोपचयनिबन्धने एवातः कथं तद्धेतुशुद्धिमार्गणं सुदृष्टं भवेदित्युक्तं च
"शौचमाध्यात्मिकं त्यक्त्वा भावशुद्ध्यात्मकं शुभम् ।
जलादिशौचं यत्रेदं मूढविस्मापनं हि तत्" ॥१॥ ॥३९॥ अथ ते विप्राः साशङ्का यागप्रश्नमाहुःकहं चरे भिक्खु ! वयं जयामो पावाई कम्माइं पणुल्लयामो ? । अक्खाहि णो संजय ! जक्खपूइया ! कहं सुज कुसला वयंति ? ॥४०॥
व्याख्या-कथं 'चरे' त्ति वचनव्यत्ययाच्चरेम यागार्थं प्रवर्तेमहि । हे भिक्षो ! वयं यजामो यागं कुर्मः ‘कथमिति योगः' । पापान्यशुभकर्माण्यविद्यारूपाणि 'पणुल्लयामो' त्ति प्रणुदामः प्रेरयामो 'येनेति' गम्यम् । आख्याहि कथय नोऽस्माकं संयत ! पापस्थानोपरत ! यक्षपूजित ! । को भावः ? यो ह्यस्मद्विदितः कर्मप्रणोदनोपायत्वेन यागः स युष्माभिर्दूषित इति भवन्त एवापरं यागमुपदिशन्तु । कथं स्विष्टं शोभनं यजनं कुशला वदन्ति प्रतिपादयन्ति ॥४०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org