________________
३९२
उत्तरज्झयणाणि-१ चिन्त्यशक्ते ! न ?, 'ते' तव किञ्चिच्चरणरेण्वादिकमपि नार्चयामः ? अपि तु सर्वमर्चयामः । तथा भुक्ष्व 'इतो गृहीत्वा इति गम्यम्' । 'सालिम' ति शालिमयं करं नानाव्यञ्जनैर्दध्यादिभिः संयुतम् ॥३४॥
अन्यच्चइमं च मे अस्थि पभूयमन्नं तं भुंजसू अम्ह अणुग्गहट्ठा । बाढं ति पडिच्छइ भत्तपाणं मासस्स उ पारणए महप्पा ॥३५॥
व्याख्या-इदं च प्रत्यक्षोपलभ्यमानं 'मे' ममास्ति प्रभूतमन्नं खण्ड-खाद्यादि, तद् भुझ्वास्मदनुग्रहार्थम् । एवं च तेनोक्ते मुनिराह–'बाढं' एवं कुर्म इत्येवं 'ब्रुवाण' इति शेषः' प्रतीच्छति द्रव्यादितः शुद्धमिति गृह्णाति भक्तपानम् । 'मासस्स उ' त्ति 'अन्त इत्यध्याहारात्' मासस्यान्ते पर्यन्ते पारणके महात्मेति ॥३५॥
तत्र यदभूत, तदाहतहियं गंधोदयपुप्फवासं दिव्वा तहिं वसुहारा य वुट्ठा । पहयाओ दुंदुहीओ सुरेहि आगासे अहो ! दाणं च घुटुं ॥३६॥
व्याख्या-तस्मिन् मुनौ भक्तादि गृह्णति यज्ञवाटे वा गन्धप्रधानमुदकं गन्धोदकं तच्च पुष्पाणि च तेषां वर्ष वर्षणं सुरैरिति योगात् 'कृतमिति गम्यते' । दिव्याऽतिश्रेष्ठा तत्रैव वसु द्रव्यं तस्य धारा वृष्टेति पातिता 'सुरैरिति योज्यम्' । तथा प्रहतास्ताडिता दुन्दुभय देवतोद्यानि सुरैर्देवैः । आकाशे अहो ! इति विस्मयकृदिदं दानं च सुदत्तमिति घुष्टं संशब्दितमिति ॥३६॥
विस्मितास्ते ब्राह्मणा इदमाहुःसक्खं खु दीसइ तवोविसेसो न दीसई जाइविसेस कोई । सोवागपुत्तं हरिएससाहुं जस्सेरिसा इड्डि महाणुभागा ॥३७॥
व्याख्या साक्षात् प्रत्यक्षं 'खुनिश्चये' दृश्यते तपसः षष्ठाष्टमादेविशेषो माहात्म्यं तपोविशेषो न नैव दृश्यते जातिविशेषो जातिमाहात्म्यलक्षणः कोऽपीत्यल्पोऽपि । किमित्यत आह-यतोऽसौ श्वपाकपुत्रश्चाण्डालसुतो हरिकेशबलश्चासौ साधुश्च हरिकेशसाधुर्यस्येदृशी दृश्यमाना ऋद्धिर्देवसन्निधानरूपा सम्पत् महानुभागा सातिशयमाहात्म्येति ॥३७॥
मुनिरुपशान्तांस्तानिदमाहकिं माहणा ! जोइसमारभंता उदएण सोहिं बहिया विमग्गहा। जं मग्गहा बाहिरियं विसोहिं न तं सुदिटुं कुसला वयंति ॥३८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org